________________
४८८
दशविधानि चित्तसमाधिस्थानानि ‘नो इत्थीठाणाइं सेवित्ता भवइ ।' (छाया- न स्त्रीस्थानानि सेविता भवति ।)
नो स्त्रीणां तिष्ठन्ति येषु तानि स्थानानि निषद्याः स्त्रीस्थानानि तानि सेविता भवति कोऽर्थः ?, स्त्रीभिः सहैकासने नोपविशेदुत्थितास्वपि हि तासु मुहूर्त नोपविशेदिति षष्ठम् ।६।
'नो इत्थीणं इन्दियाइं मणुन्नाइं मणोरमाइं आलोइय २ निज्झाइत्ता भवइ ।' (छाया- न स्त्रीणां इन्द्रियाणि मनोज्ञानि मनोरमाणि आलोक्य आलोक्य निर्ध्याता भवति ।)
नो स्त्रीणामिन्द्रियाणि नयननासिकादीनि मनो हरन्ति दृष्टमात्राण्याक्षिपन्तीति मनोहराणि तथा - मनो रमयन्ति दर्शनानन्तरमनुचिन्त्यमानान्याह्लादयन्तीति मनोरमाण्यालोक्यालोक्य निर्ध्याता दर्शनानन्तरमतिशयेन चिन्तयिता यथाहो ! लवणत्वं लोचनयोः, ऋजुत्वं नासावंशस्येत्यादि भवति साधुरिति सप्तममिति ।७।
___'नो सद्दाणुवाई, नो रूवाणुवाई नो गन्धाणुवाई भवइ ।' (छाया- न शब्दानुपाती न रूपानुपाती न गन्धानुपाती भवति ।)
नो शब्दं मन्मथभाषितादिकमभिष्वङ्गहेतुमनुपतत्यनुसरतीत्येवंशीलः शब्दानुपाती, एवं नो रूपानुपाती, नो गन्धानुपातीतिपदत्रयेणाप्येकमेव स्थानमित्यष्टममिति ।८।
_ 'नो सिलोगाणुवाई भवइ ।' (छाया- न श्लोकानुपाती भवति ।) नो श्लोकं ख्यातिमनुपतत्यनुसरतीत्येवंशीलः श्लोकानुपातीति नवममिति ।९।
'नो सायसोक्खपडिबद्धे भवइ'। (छाया- न सातसौख्यप्रतिबद्धो भवति ।)
सातात्पुण्यप्रकृतेः सकाशाद्यत्सौख्यं सुखं रसस्पर्शलक्षणविषयसम्पाद्यं तत्र प्रतिबद्धस्तत्परो मुनिः सातग्रहणादुपशमसौख्यप्रतिबद्धतायां न निषेधः भवति जायते इति दशममिति ।१०।
क्वचित्तु 'चित्तसमाहिट्ठाण'त्ति इति पाठस्तत्राप्ययमेवार्थो नवरं सत्यदशकं न व्याख्येयमिति ।'
गुरोर्मनो दशचित्तसमाधिस्थानेषु लीनं भवति ।