________________
४८७
दशविधानि चित्तसमाधिस्थानानि
___'नो इत्थीपसुपण्डगसंसत्ताई सयणासणाइं सेवित्ता भवइ ।' (छाया- न स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेविता भवति ।)
नो नैव स्त्रियो देवीनारीतिरश्च्योऽत्रासमाधिदोषः प्रतीत एव, पशवो गवादयस्तत्संसक्तौ हि तत्कृतविकारदर्शनाच्चित्तविकारः सम्भाव्यत इति । पण्डकाश्च नपुंसकानि तत्संसक्तौ स्त्रीसमानो दोषः प्रतीत एव, एतैः संसक्तानि समाकीर्णानि स्त्रीपशुपण्डकसंसक्तानि शयनासनानि संस्तारकपीठकादीनि उपलक्षणतया स्थानादीनि च सेविता तेषां सेवको भवति साधुरित्येकम् ।। तथा -
'नो इत्थीणं कहं कहेत्ता भवति ।' (छाया- न स्त्रीणां कथां कथयिता भवति । )
नो स्त्रीणां केवलानामिति गम्यते, कथां धर्मदेशनादिलक्षणवाक्यप्रबन्धनरूपां तन्नेपथ्यादिवर्णनरूपां वा कथयिता तत्कथको भवति साधुरिति द्वितीयम् ।२।
___ 'नो पणीयरसभोई भवइ ।' (छाया- न प्रणीतरसभोजी भवति ।) नो गलत्स्नेहबिन्दुभोक्ता भवति मुनिरिति तृतीयम् ।३।
'नो पाणभोयणस्स अइमायं आहारित्ता भवइ ।' (छाया- न पानभोजनस्य अतिमात्रं आहारको भवति ।)
नो पानभोजनस्य रूक्षस्याप्यतिमात्रं 'अद्धमसणस्से'त्यादिप्रमाणातिक्रान्तमाहारकोऽभ्यवह" भवति खाद्यस्वाद्ययोरुत्सर्गतो यतीनामयोग्यत्वात्पानभोजनयोर्ग्रहणमिति चतुर्थम्
॥४॥
'नो पुष्वरयपुव्वकीलियाई सरित्ता भवति ।' (छाया- न पूर्वरतपूर्वक्रीडितानि स्मर्ता भवति ।)
नो पूर्वरतं नो गृहस्थावस्थायां स्त्रीसम्भोगानुभवनं तथा पूर्वक्रीडितं तथैवं द्यूतादिरमणलक्षणं स्मर्ता चिन्तयिता भवतीति पञ्चममिति ।५।