________________
४८६
दशविधानि चित्तसमाधिस्थानानि 'तहिं दुरालोइयभत्तपाण-एसणमणेसणाए उ।
अटुस्सासे अहवा अणुग्गहाई व झाइज्जा ॥१॥' दशवैकालिके त्वस्मिन् कायोत्सर्गे 'अहो जिणेहिं असावज्जा' इतिगाथाचिन्तनं भणितं, पारयित्वा च चतुर्विंशतिस्तवभणनं, तदनु परिश्रमाद्यपनयनाय मुहूर्तमुपविष्टाः स्वाध्यायं विदधतीति, तथा निःसागारिके स्थाने रागद्वेषविरहिताः सन्तो नमस्कारं पठित्वा सन्दिशत पारयाम इत्यभिधाय च गुरुणाऽनुज्ञाता व्रणलेपाथुपमया भुञ्जन्ति-भोजनं कुर्वन्ति ६, तथा भोजनानन्तरमच्छोदकेन भाजनेषु समयप्रसिद्ध कल्पत्रयं दत्त्वा 'पत्तगधुवण' त्ति पात्रकाणां धावनं कुर्वन्ति ७, समयपरिभाषया त्रेप्यन्तीत्यर्थः, तदनु यद्यपि प्रागेवैकाशनकं प्रत्याख्यातं तथाप्यप्रमादार्थं 'सागारिकाकारेणं गुरुअब्भुटाणेणं आउंटणपसारेणं पारिटावणियागारेणं' इत्येषां प्राग्गृहीतानामाकाराणां च निरोधनार्थं प्रत्याख्यानं विधेयमिति, तथा 'वियार' त्ति विचार:-सञ्ज्ञाव्युत्सर्जनार्थं बहिर्गमनं ८, तं वक्ष्यमाणविधिना कुर्वन्ति, तथा 'थंडिलं'ति स्थण्डिलं परानुपरोधि प्रासुकभूभागलक्षणं तिर्यग् जघन्येन हस्तमात्रं प्रतिलेखयन्ति ९, तच्च सप्तविंशतिविधं, तथाहि-कायिकायोग्यानि वसतेर्मध्ये षट् स्थण्डिलानि बहिर्भागेऽपि षडेव, मिलितानि च द्वादश, एवमुच्चारयोग्यान्यपि द्वादश, त्रीणि च कालग्रहणयोग्यानीति, तथा पूर्वोक्तविधिना 'आवस्सय'त्ति आवश्यकं-प्रतिक्रमणं कुर्वन्ति १०, आदिशब्दात्कालग्रहणादिपरिग्रहः, इत्येषा प्रकारान्तरेण दशविधा प्रतिदिनसामाचारी समासतो व्याख्याता, विस्तरतस्तु पञ्चवस्तुकद्वितीयद्वारादवसेयेति १०१ ॥७६८॥'
गुरोर्मनो दशविधसामाचारीपालने लीनं भवति ।
चित्तस्य-चेतसः समाधिः-स्वास्थ्यमिति चित्तसमाधिः, तस्य स्थानानि-आश्रया इति चित्तसमाधिस्थानानि । तानि दशविधानि । तद्यथा १ स्त्रीपशुपण्डकसंसक्तानि शयनासनानि न सेवनीयानि, २ स्त्रीणां कथा न कथनीया, ३ प्रणीतभोजनं न भोक्तव्यं, ४ अतिमात्रं भोजनं न कर्त्तव्यं, ५ पूर्वक्रीडितं न स्मर्त्तव्यं, ६ स्त्रीस्थानानि न सेवनीयानि, ७ स्त्रीणामिन्द्रियाणि न निरीक्षितव्यानि, ८ शब्दरूपगन्धा नानुसतव्याः, ९ श्लोको नानुसतव्यः, १० सातासुखे प्रतिबन्धो न कर्त्तव्यश्च । यदुक्तं पाक्षिकसूत्रवृत्तौ -
"समाहिठाण'त्ति - समाधे रागादिरहितचित्तस्य स्थानान्याश्रयाः समाधिस्थानानि, तान्यपि दश तद्यथा -