SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ दशविधा सामाचारी ४८३ 'तिण्ण'त्ति तीर्णाः, उपलक्षणत्वात्तरन्ति तरिष्यन्ति चेति सूत्रावयवार्थः, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ॥१॥ यथाप्रतिज्ञातमाह - पढमा आवस्सिआ नाम १, बिइआ य निसीहिआ २ । आपुच्छणा य तइआ ३, चउत्थी पडिपुच्छणा ४ ॥२॥ पंचमा छंदणा नामं ५, इच्छाकारो अछट्ठओ ६ । सत्तमो मिच्छकारो उ ७, तहक्कारो अ ८ अट्ठमो ॥३॥ अब्भुटाणं नवमं ९, दसमा उवसंपया १०। एसा दसंगा साहूणं, सामायारी पवेइआ ॥४॥ (छाया- प्रथमा आवश्यकी नाम १, द्वितीया च नैषेधिकी २ । आप्रच्छना च तृतीया ३, चतुर्थी प्रतिप्रच्छना ४ ॥२॥ पञ्चमी छन्दना नाम ५, इच्छाकारश्च षष्ठकः ६। सप्तमो मिथ्याकारस्तु ७, तथाकारश्च अष्टमः ८ ॥३॥ अभ्युत्थानं नवमं ९, दशमी उपसम्पद् १० । एषा दशाङ्गा साधूनां, सामाचारी प्रवेदिता ॥४॥) वृत्तिः - व्रतादारभ्य विना कारणं गुरोरवग्रहे न स्थेयमाशातनाशङ्कातः, किन्तु ततो निर्गन्तव्यं, न चावश्यकी विना निर्गमनमिति प्रथमाऽऽवश्यकी ॥१॥ निर्गत्य चावस्थानस्थाने नैषेधिकी गमनादिनिषेधरूपा कार्येति तदनु नैषेधिकी ॥२॥ तत्र च तिष्ठता भिक्षाटनादिकार्योत्पत्तौ गुरूनापृच्छयैव प्रवर्तितव्यमिति तदनन्तरमाऽऽप्रच्छना ॥३॥ तस्यां च कृतायां गुरुनियुक्तेनाऽपि प्रवृत्तिकाले पुनः प्रष्टव्या एव गुरवः इति तत्पृष्ठतः प्रतिप्रच्छना ॥४॥ कृत्वा च भिक्षाटनं नात्मम्भरिणा भाव्यं, किन्तु शेषमुनीनां निमन्त्रणारूपा छन्दना कार्येति तदनु छन्दना ॥५॥ तत्रापि इच्छाकार एव प्रयोक्तव्य इति तदनु सः ॥६॥ इत्थं क्रियमाणेऽपि कथञ्चिदतिचारसम्भवे मिथ्यादुष्कृतं कार्यमिति तदनु मिथ्याकारम् ॥७॥ महति चापराधे गुरोरालोचिते गुरुवचनं तथेति स्वीकार्यमिति तत्पृष्ठतस्तथाकारः ॥८॥ तथेति स्वीकृत्य च सर्वकृत्येषूद्यमः कार्य इति तदनु अभ्युत्थानम् ॥९॥ उद्यमवता च ज्ञानाद्यर्थं गणान्तरेऽपि गत्वोपसम्पद्ग्राह्येति तदनु उपसम्पदुक्तेति सूत्रत्रयार्थः ॥२॥ ॥३|| ||४|| एनामेव विषयविभागेनोपदर्शयितुमाह -
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy