SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ४८४ दशविधा सामाचारी गमणे आवस्सिअंकुज्जा, ठाणे कुज्जा णिसीहि । आपुच्छणा सयं करणे, परकरणे पडिपुच्छणा ॥५॥ (छाया- गमने आवश्यकी कुर्यात्, स्थाने कुर्यात् नैषेधिकीम् । आप्रच्छना स्वयं करणे, परकरणे प्रतिप्रच्छना ॥५॥) वृत्तिः - गमने तथाविधहेतुना बहिनिस्सरणे, आवश्यकेषु अवश्यकर्त्तव्यव्यापारेषु भवा आवश्यकी तां कुर्यात् । स्थाने उपाश्रयादौ प्रविशन्निति शेषः, कुर्यान्नषेधिकी गमनादिनिषेधरूपाम् । आप्रच्छना इदमहं कुर्यां न वेत्यादिरूपां, स्वयमात्मनः करणं कस्यापि कार्यस्य निर्वर्त्तनं स्वयं करणं तस्मिन्कार्येति शेषः, तथा परकरणेऽन्यकार्यविधाने प्रतिप्रच्छना, गुरुनियुक्तोऽपि हि पुनः प्रवृत्तिकाले पृच्छत्येव गुरूम् । इह च स्वकृत्यपरकृत्ययोरुपलक्षणत्वात्सामान्येन स्वपरसम्बन्धिषु सर्वकार्येष्वपि प्रथमतो गुरूणां प्रच्छनमापृच्छा, गुरुनियुक्तेनापि प्रवृत्तिकाले भूयस्तत्प्रच्छनं प्रतिपृच्छेति ज्ञेयम् । आह च नियुक्तिकृत् - 'आपुच्छणा उ कज्जे पुव्वनिउत्तेण होइ पडिपुच्छ'त्ति । ॥५॥ छंदणा दव्वजाएणं, इच्छाकारो असारणे। मिच्छाकारो अनिदाए, तहक्कारो पडिस्सुए ॥६॥ (छाया- छन्दना द्रव्यजातेन, इच्छाकारश्च सारणे । मिथ्याकारश्च निन्दायां, तथाकारः प्रतिश्रुते ॥६॥) वृत्तिः - छन्दना शेषमुनिनिमन्त्रणा द्रव्यजातेन द्रव्यविशेषेण पूर्वगृहीतेनेति गम्यते, उक्तं च 'पुव्वगहिएण छंदणत्ति ।' इच्छया स्वाभिप्रायेण न तु बलात्कारेण करणं तत्तत्कार्यनिवर्त्तनमिच्छाकारः, सारणे आत्मनः परस्य वा कृत्यं प्रति प्रवर्त्तने । तत्रात्मसारणे यथा 'इच्छाकारेण युष्मच्चिकीर्षितमिदं कार्यं करोमीति ।' अन्यसारणे च यथा 'मम पात्रलेपादिकार्यमिच्छाकारेण कुरुतेति ।' मिथ्याकरणं मिथ्या इदमिति प्रतिपत्तिमिथ्याकारः, स चात्मनो निन्दायां वितथाचरणे धिगिदं मिथ्या मया कृतमित्यादिरूपायां । तथाकार इदमित्थमेवेत्यभ्युपगमः, प्रतिश्रुते प्रतिश्रवणे गुरौ वाचनादिकं प्रयच्छत्येवमेवेदमित्यङ्गीकाररूपे ॥६॥ अब्भुट्ठाणं गुरुपूआ, अच्छणे उवसंपया। एवं दुपंचसंजुत्ता, सामायारी पवेइआ ॥७॥ (छाया- अभ्युत्थानं गुरुपूजा, अवस्थाने उपसम्पद् । एवं द्विपञ्चसंयुक्ता, सामाचारी प्रवेदिता ॥७॥)
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy