________________
दशमी षटिंबशिका साम्प्रतं दशमी षट्रिशिकामाह - मूलम् - दसविहसामायारी-दसचित्तसमाहिठाणलीणमणो ।
सोलसकसायचाई, छत्तीसगुणो गुरू जयउ ॥११॥ छाया - दशविधसामाचारी-दशचित्तसमाधिस्थानलीनमनाः ।
षोडशकषायत्यागी, षट्त्रिंशद्गुणो गुरुर्जयतु ॥११॥ प्रेमीया वृत्तिः - दशविधसामाचारीदशचित्तसमाधिस्थानलीनमनाः - दशविधासु सामाचारीषु दशसु च चित्तसमाधिस्थानेषु लीनं मग्नं मनश्चित्तं यस्य स तथा, षोडशकषायत्यागी - षोडशकषायत्यजनशीलः, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति सक्षेपार्थः ।
विस्तरार्थस्त्वयम् - समाचरणं समाचारः शिष्टजनाचरितः क्रियाकलापः, समाचार एव सामाचार्य, स्त्रीविवक्षायां सामाचारी । सा दशविधा । तद्यथा - १ आवश्यकी, २ नैषेधिकी, ३ आप्रच्छना, ४ प्रतिप्रच्छना, ५ छन्दना, ६ इच्छाकारः, ७ मिथ्याकारः, ८ तथाकारः, ९ अभ्युत्थानं १० उपसम्पच्च । उक्तञ्च श्रीमदुत्तराध्ययनसूत्रषड्विशतितमाध्ययने महो.भावविजयकृततद्वृत्तौ च -
___ 'सामायारी पवक्खामि, सव्वदुक्खविमोक्खणि ।
जं चरित्ताण निग्गंथा, तिण्णा संसारसागरं ॥१॥ (छाया- सामाचारी प्रवक्ष्यामि, सर्वदुःखविमोक्षणीम् ।
यां चरित्वा निर्ग्रन्थाः, तिर्णाः संसारसागरम् ॥१॥) वृत्तिः - सामाचारी साधुजनकर्त्तव्यरूपां 'जं चरित्ताण'त्ति यां चरित्वाऽऽसेव्य