________________
४६३
पाटकसंस्तारभूमिपरावर्त्तनादिभिरपि मासं मासं स्थानव्यत्ययं कुर्वीतैकत्र ग्रामादौ । यदुक्तमेतदेव सपूर्वपक्षं पञ्चवस्तुके -
नवकल्पविहारः
'मोत्तूण मासकप्पं, अण्णो सुत्तंमि णत्थि उ विहारो । ता कहमाइग्गहणं ?, कज्जे ऊणाइभावाओ ॥१॥ [ ८९६ ] (छाया - मुक्त्वा मासकल्पं, अन्यः सूत्रे नास्ति तु विहारः । ततः कथमादिग्रहणं ?, कार्ये ऊनादिभावात् ॥१॥ (८९६) ) 'कालाइदोसओ जइ, न दव्वओ एस कीरई णिअमा । भावेण तह विकीर, संथारगवच्चयाईहिं ॥२॥ [ प्र. सा. ७७३-७४]' (छाया - कालादिदोषतः यदि, न द्रव्यत एष क्रियते नियमात् ।
भावेन तथापि क्रियते संस्तारकव्यत्ययादिभिः ||२|| ) ( प्र.सा. ७७३-७४)
तथा
पञ्चवस्तुके तद्वृत्तौ चोक्तम् -
'अपडिबद्धो असया, गुरुवएसेण सव्वभावेसु । मासाइविहारेणं, विहरिज्ज जहोचिअं नियमा ॥८९५ ॥ (छाया - अप्रतिबद्धश्च सदा, गुरूपदेशेन सर्वभावेषु ।
मासादिविहारेण, विहरेत् यथोचितं नियमात् ॥८९५॥
वृत्तिः - अप्रतिबद्धश्च सदा अभिष्वङ्गरहित इत्यर्थः, गुरूपदेशेन हेतुभूतेन, क्वेत्याह- सर्वभावेषु चेतनाचेतनेष्वप्रतिबद्धः, किमित्याह - मासादिविहारेण समयप्रसिद्धेन विहरेत्, यथोचितं संहननाद्यौचित्येन नियमात् नियोगेन विहरेदिति गाथार्थः ॥८९५॥'
ओघनिर्युक्तावुक्तम् -
-
'समणाणं सउणाणं, भमरकुलाणं च गोउलाणं च । अनिययाओ वसहीओ सारइआणं च मेहाणं ॥ १७३ ॥ '
(छाया - श्रमणानां शकुनानां, भ्रमरकुलानां च गोकुलानां च । अनियता वसतयः, शारदिकानां च मेघानाम् ॥१७३॥)
संवेगरङ्गशालायां विहारगुणा इत्थमुक्ताः