________________
४६२
नवकल्पविहारः वर्षाकाले एकस्मिन् स्थाने तिष्ठन्ति । ऋतुबद्धकाले तेऽष्टसु स्थानेष्वेकैकं मासं यावत्तिष्ठन्ति । ततश्चातुर्माससमाप्तौ ऋतुबद्धकालवर्तिप्रतिमाससमाप्तौ च तेषां विहारो भवतीति नवविधस्तेषां विहारः । सिद्धान्तभाषया स नवकल्पविहार इति कथ्यते । उक्तञ्च -कल्पसूत्रसुबोधिकायाम् -
'मास' त्ति आद्यान्त्यजिनयतीनां मासकल्पमर्यादा नियता, दुर्भिक्षाऽशक्तिरोगादिकारणसद्भावेऽपि शाखापुर-पाटक-कोणक-परावर्तेनाऽपि सत्यापनीयैव, परं शेषकाले मासादधिकं न स्थेयं, प्रतिबन्धलघुत्वप्रमुखबहुदोषसम्भवात्, मध्यमजिनयतीनां तु ऋजुप्राज्ञानां पूर्वोक्तदोषाभावेन अनियतो मासकल्पः, ते हि देशोनां पूर्वकोटीं यावदपि एकत्र तिष्ठन्ति, कारणे मासमध्येऽपि विहरन्ति ॥१॥' धर्मसङ्ग्रहे तद्वृत्तौ चोक्तम् -
"विहारोऽप्रतिबद्धश्च, सम्यग्गीतार्थनिश्रया ।
महामुनिचरित्राणां, श्रवणं कथनं मिथः ॥१२६॥ वृत्तिः - 'अप्रतिबन्धः' प्रतिबन्धरहितो 'विहारो' विहरणं मासकल्पादिनाऽन्यान्यस्थाने गमनमिति भावः, सापेक्षयतिधर्मो भवतीति प्रकृते योजना, प्रतिबन्धश्च द्रव्यादिविषयभेदाच्चतुर्द्धा - तत्र द्रव्ये श्रावकादौ, क्षेत्रे निवातवसत्यादौ, काले शिशिरादौ, भावे शरीरोपचयादाविति । अत्रेदमवधेयम् -प्रतिबन्धतः सुखलिप्सुतया मासकल्पादूर्ध्वमुत्सर्गतस्तावदेकत्र न तिष्ठेत् , मासकल्पादिना च विहारोऽपि द्रव्याद्यप्रतिबद्धस्यैव सफलः, यदि पुनरमुकं नगरादिकं गत्वा तत्र महद्धिकान् बहून् श्रावकानुपार्जयामि तथा च करोमि यथा मां विहायाऽपरस्य ते भक्ता न भवन्तीत्यादिद्रव्यप्रतिबन्धेन, तथा निवातवसत्यादिजनितरत्युत्पादकममुकक्षेत्रम् , इदं तु न तथाविधमित्यादिक्षेत्रप्रतिबन्धेन, तथाऽस्मिन्नृतावमुकक्षेत्रं सरसमित्यादिकालप्रतिबन्धेन, तथा स्निग्धमधुराद्याहारादिलाभेन, तत्र गतस्य मम शरीरपुष्टयादिसुखं भविष्यत्यत्र तु न तत् सम्पद्यते, अपरंचैवमुद्यतविहारेण विहरन्तं मामेवोद्यतं लोका भणिष्यन्त्यमुकंतुशिथिलमित्यादिभावप्रतिबन्धेन च मासकल्पादिना विहरति तदाऽसौ विहारोऽपि कार्यासाधक एव, तस्मादवस्थानं विहारो वाऽप्रतिबद्धस्यैव साधुरिति।
कारणतश्च न्यूनाधिकमपि मासकल्पं कुर्यात् । कारणानि च द्रव्यादिदोषाः, तत्र द्रव्यदोषो भक्तपानादीनां शरीराननुकूलता, क्षेत्रदोषः संयमाननुगुणत्वादिः, कालदोषो दुर्भिक्षादिः, भावदोषो ग्लानत्वज्ञानादिहानिः, एषु च सत्सु बहिर्वृत्त्या मासकल्पविहाराभावेऽपि भावतो वसति