________________
नवकल्पविहारः
४६१ पुरुषभावेन, अन्यजन्मन्यहं स्त्री भूयासम्, एषोऽपि निदानानुरूप उत्पद्यते, धर्मं न प्रतिपद्यते दुर्लभबोधिको भवति ॥३॥ निर्ग्रन्थी अपि उग्रादिपुत्रं दृष्ट्वा निदानं करोति स्त्री असमर्था, एकाकिनी ग्रामान्तरादिसञ्चरणे सर्वपरिभूता वचनीयस्थानं सर्वकालं पराधीना च, अतोऽहं अन्यजन्मनि उग्रादिपुत्रो भूयासम्, तथैव भवति, न धर्मं प्रतिपद्यते दुर्लभबोधिको भवति ॥४॥ निर्ग्रन्थो निर्ग्रन्थी वा चिन्तयति, इमे मानुष्यकाः कामभोगा मूत्रपुरीषवान्तपित्तश्लेष्मशुक्राद्यास्रवाः, ये पुनरिमे देवा अन्यं देवं देवीं वा आत्मानं वा देवदेवीरूपं विकुर्व्य प्रवीचारयन्ति, एतत् साधु, ततोऽहमपि तथाविधदेवो भूयासम्, तथैव भवति, ततश्च्युतः पुमान् जातो धर्ममाचक्ष्यमाणं शृणोति, न पुनः श्रद्दधाति ॥५॥ निर्ग्रन्थो निर्ग्रन्थी वा निदानं करोति, अशुभा मनुष्याणां भोगाः, ये पुनः देवलोकेषु देवा न अन्यं देवं देवीं वा प्रवीचारयन्ति, किन्तु आत्मानमेव देवदेवीरूपं विकुळ प्रवीचारयन्ति, एतत् साधु, ततोऽहमपि तेषु भूयासम्, तथैव भवति, ततश्च्युतस्य कोऽपि धर्ममाचक्षीत, शृणुयात् न श्रद्दधीत, नवरमारण्यकश्रमणो भूत्वा तथाविधविरतिवर्जितः परोपघातकशास्त्रोपदेशपरायणः स्त्रीकाममूच्छितो मृतः सन् असुरेषु किल्बिषिकत्वेन उत्पद्य च्युतः सन् भूयः २ एडमूकत्वेन उत्पद्यते, दुर्लभबोधिको भवति ॥६॥ निर्ग्रन्थो निर्ग्रन्थी वा निर्विण्णदिव्यमनुजकामभोगो निदानं करोति, यदि अस्य धर्मस्य फलमस्ति ततो यत्र न प्रवीचारणा तत्राहं भूयासम्, तत्रैव भवति, ततश्च्युतस्य मनुजेषु उत्पन्नस्य श्रमणो धर्ममाचक्षीत, तं शृणोति, श्रद्दधाति, न देशविरतिमपि प्रतिपद्यते, दर्शनश्रावकोऽधिगतजीवाजीवः सुलभबोधिको भवति ॥७॥ निर्ग्रन्थो निर्ग्रन्थी वा दिव्यमानुष्यकेषु भोगेषु निर्विण्णो धर्मस्यार्थिकः चिन्तयति, इमे उग्रादिपुत्राः अणुव्रतगुणव्रतादिस्थिताः साधून् प्रतिलम्भयन्तो विहरन्ति, एतत् साधु, एवं निदानं कृत्वा देवेषूत्पद्य उग्रादिपुत्रभावस्थितो द्वादशविधं अगारधर्मं प्रतिपद्यते न अनगारधर्ममिति ॥८॥ निग्रन्थो निर्ग्रन्थी वा कामभोगनिर्विण्णो निदानं करोति, यदि मम तपोनियमफलमस्ति ततोऽहं दरिद्रकुले उत्पत्सीय, एवं मम आत्मा सुनिर्गन्तुको भविष्यति, एवं कृतनिदानो देवेषु उत्पद्य दरिदकुलोत्पन्नो धर्मं श्रुत्वा यावत् प्रव्रजति न सिध्यति ॥९॥ एवं ज्ञात्वा अनिदानेन भवितव्यमिति ।)
गुरुरेतैर्नवनिदानै रहितो भवति । मूले पदानां व्यत्ययेनोपन्यासः छन्दोभङ्गनिवृत्त्यर्थम् ।
विहारः - साधूनां स्थानात्स्थानान्तरे सङ्क्रमणम् । स नवविधः तद्यथा - साधवो