SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ४५७ नव ब्रह्मचर्यगुप्तयः विशेषेण वृद्धिहेतुः कामरागविवर्द्धनी तां, शेषं स्पष्टं, नवरं, स्त्रीकथां 'तद्वक्त्रं यदि मुद्रिता शशिकथा' इत्यादिरूपाम् ॥२॥ समं च सह संस्तवं परिचयं स्त्रीभिर्निषद्याप्रक्रमादेकासनभोगेनेति गम्यते, सङ्कथां च ताभिरेव समं सन्ततभाषणात्मिकाम् अभीक्ष्णं पुनः पुनः ‘णिच्चसो 'त्ति नित्यमन्यत्स्पष्टम् ॥३॥ ____ अङ्गानि - शिरःप्रभृतीनि प्रत्यङ्गानि-कुचकक्षादीनि संस्थानं-कटीनिविष्टकरादिसन्निवेशात्मकम्, अमीषां समाहारनिर्देशः, अङ्गप्रत्यङ्गयोर्वा संस्थानम्-आकारविशेषोऽङ्गप्रत्यङ्गसंस्थानं चारु शोभनम् उल्लपितं च-मन्मनभाषितादि तत्सहगतमुखादिविकारोपलक्षणमेतत् प्रेक्षितं च-अर्द्धकटाक्षनिरीक्षितादि उल्लपितप्रेक्षितं ब्रह्मचर्यरतः स्त्रीणां सम्बन्धि चक्षुषा गृह्यत इति चक्षुर्गाद्यं सद्विवर्जयेत्, किमुक्तं भवति ? - चक्षुषि हि सति रूपग्रहणमवश्यंभावि, परं तद्दर्शनेऽपि तत्परिहार एव कर्त्तव्यो न तु रागवशगेन पुनः पुनस्तदेव वीक्षणीयमिति, उक्तं हि - "असक्का रूवमदर्दू, चक्खुगोयरमागयं । रागहोसे उ जे तत्थ, ते बुहो परिवज्जए ॥१॥" (छाया- अशक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् । रागद्वेषौ तु यौ तत्र तौ बुधः परिवर्जयेत् ॥१॥) ॥४॥ 'कुइयं'सूत्रं प्रायो व्याख्यातमेव, नवरं कुड्यान्तरादिष्विति शेषः ॥५॥ 'हास'सूत्रमपि तथैव, नवरं रतिं दयिताङ्गसङ्गजनितां प्रीतिं दर्प मनस्विनीमानदलनोत्थं गर्वं सहसाऽवत्रासितानि च पराङ्मुखदयितादेः सपदि त्रासोत्पादकान्यक्षिस्थगनमर्मघट्टनादीनि, पठ्यते च - 'हस्सं दप्पं दं किडं सह भुत्तासियाणि य ।' अत्र च सहेति स्त्रीभिः सार्धं भुक्तानि च-भोजनानि आसितानि च-स्थितानि भुक्तासितानि, शेषं स्पष्टं, नवरं सर्वत्र पूर्वकृतत्वं प्रक्रमादपेक्षणीयम् ॥६॥ 'पणीयं सूत्रं निगदसिद्धमेव, नवरं मदः-कामोद्रेक इह गृह्यते, तस्य विवर्द्धनम्-अतिबृंहकतया विशेषतो वृद्धिहेतुं परिवर्जयेत् ॥७॥ धर्मादनपेतं धर्म्यमेषणीयमित्यर्थः लब्धं प्राप्तं गृहस्थेभ्य इति गम्यते, न तु स्वयमेवोपस्कृतं, पठ्यते च 'धम्मलद्धंति धर्मेण हेतुनोपलक्षणत्वाद्धर्मलाभेन वा न तु
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy