SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४५६ मनःप्रह्लादजननीं, कामरागविवर्धनीं । ब्रह्मचर्यरतो भिक्षुः स्त्रीकथां तु विवर्जयेत् ॥२॥ समं च संस्तवं स्त्रीभिः, सङ्कथां च अभीक्ष्णं । ब्रह्मचर्यरतो भिक्षुः, नित्यशः परिवर्जयेत् ॥३॥ अङ्गप्रत्यङ्गसंस्थानं, चारूल्लपितप्रेक्षितम् । ब्रह्मचर्यरतः स्त्रीणां, चक्षुर्ग्राह्यं विवर्जयेत् ॥४॥ कूजितं रुदितं गीतं हसितं स्तनितं क्रन्दितं । ब्रह्मचर्यरतः स्त्रीणां, श्रोत्रग्राह्यं विवर्जयेत् ॥५॥ हास्यं क्रीडां रतिं दर्पं, सहसाऽवत्रासितानि च । ब्रह्मचर्यरतः स्त्रीणां, नानुचिन्तयेत् कदाचिदपि ॥६॥ प्रणीतं भक्तपानञ्च, क्षिप्रं मदविवर्धनम् । ब्रह्मचर्यरतो भिक्षुः, नित्यशः परिवर्जयेत् ॥७॥ धर्मलब्धं मितं काले, यात्रार्थं प्रणिधानवान् । नातिमात्रं तु भुञ्जीत, ब्रह्मचर्यरतः सदा ॥८॥ विभूषां परिवर्जयेत्, शरीरपरिमण्डनम् । ब्रह्मचर्यरतो भिक्षुः, शृङ्गारार्थं न धारयेत् ॥९॥) - वृत्तिः यः विविक्तः रहस्यभूतस्तत्रैव वास्तव्यस्त्र्याद्यभावाद् अनाकीर्णः असङ्कुलस्तत्तत्प्रयोजनागतस्त्र्याद्यानाकुलत्वात्, रहितः परित्यक्तोऽकालचारिणा वन्दनश्रवणादिनिमित्तागतेन स्त्रीजनेन, चशब्दात्पण्डकैः षिड्गादिपुरुषैश्च प्रक्रमापेक्षया चैवं व्याख्या, अन्यत्रापि चैवं प्रक्रमाद्यपेक्षत्वं भावनीयम्, उक्तं हि - - 'अर्थात् प्रकरणाल्लिङ्गादौचित्याद्देशकालतः । शब्दार्थाः प्रविभज्यन्ते, न शब्दादेव केवलात् ॥१॥" नव ब्रह्मचर्यगुप्तयः 44 ब्रह्मत्रयस्य उक्तरूपस्य रक्षार्थं पालननिमित्तम् आलयः आश्रयः, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्, यत्तदोर्नित्यसम्बन्धात्तं तुः पूरणे निषेवते भजते ॥१॥ मन:- चित्तं तस्य प्रल्हाद: अहो ! अभिरूपा एता इत्यादिविकल्पज आनन्दस्तं जनयतीति मनःप्रह्लादजननी ताम्, अत एव कामरागो - विषयाभिष्वङ्गस्तस्य विवर्द्धनी
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy