________________
एकविंशतितमी षट्विशिका अधुनैकविंशतितमी षट् िशिकामाह - मूलम् - नरदिक्खदोस अट्ठा-रसेव अट्ठार पावठाणाई।
दूरेण परिहरंतो, छत्तीसगुणो गुरू जयउ ॥२२॥ छाया - नरदीक्षादोषान् अष्टा-दशैव अष्टादश पापस्थानानि ।
दूरेण परिहरन्, षट्त्रिंशद्गुणो गुरुर्जयतु ॥२२॥ प्रेमीया वृत्तिः - नरदीक्षादोषान् - दीक्षाया अयोग्यस्य नरस्य दोषान्, अष्टादश - अष्टादशसङ्ख्यान, एवः अवधारणे, तथा, अष्टादश-अष्टादशविधानि, पापस्थानानि - अशुभाचरणानि, दूरेण - विप्रकर्षेण सर्वथेत्यर्थः, परिहरन् - वर्जयन्, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति सङ्केपेणोक्तम् ।
अथ विस्तरेणोच्यते - नरस्य-पुरुषस्य दीक्षायाः-प्रव्रज्याया दोषा:-अयोग्यत्वानीति नरदीक्षादोषाः । तेऽष्टादश । तद्यथा - १ बालः, २ वृद्धः, ३ नपुंसकः, ४ क्लीबः, ५ जडः, ६ व्याधितः, ७ स्तेनः, ८ राजापकारी, ९ उन्मत्तः, १० अदर्शनः, ११ दासः, १२ दुष्टः, १३ मूढः, १४ ऋणातः, १५ जुङ्गितः, १६ अवबद्धः, १७ भृतकः, १८ शिक्षकनिष्फेटिका च । दोषदोषवतोः कथञ्चिदभेदादेवमुपन्यासः । यदाह पुष्पमालायां तद्वृत्तौ च -
'अन्वयव्यतिरेकाभ्यां निर्णीतोऽर्थः सुग्राह्यो भवतीत्यतोऽन्वयेनोक्ताः सर्वविरतेर्योग्याः, अथ तद्व्यतिरेकिणोऽयोग्यानाह -
अट्ठारस पुरिसेसुं वीसं इत्थीसु दस नपुंसेसु । जिणपडिकुट्ठत्ति तओ पव्वावेउं न कप्पंति ॥१२३॥