SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ७६८ (छाया - अष्टादश पुरुषेषु विंशतिः स्त्रीषु दश नपुंसकेषु । अष्टादश नरदीक्षादोषाः जिनप्रतिकुष्टा इति ततः प्रव्राजयितुं न कल्पन्ते ॥ १२३ ॥ ) वृत्तिः - पुरुषेषु मध्येऽष्टादश स्त्रीषु विंशतिः नपुंसकेषु दश एते जिनैः प्रतिकुष्टानिवारिता इत्यतः प्रव्राजयितुं न कल्पते, बहुदोषसम्भवादिति गाथार्थः ॥१२३॥ तत्र ये तावत् पुरुषेष्वष्टादश तान् दर्शयन्नाह - बाले १ वुड्ढे २ नपुंसे ३ य, कीवे ४ जड्डे ५ य वाहिए ६ । तेणे ७ रायावगारी ८ य, उम्मत्ते ९ य अदंसणे १० ॥ १२४ ॥ दासे ११ दुट्ठे १२ य मूढे १३ य, अणत्ते १४ जुंगिए १५ इय । ओबद्धए १६ य भयए १७ य, सेहनिप्फेडिया १८ इय ॥ १२५ ॥ (छाया - बालः १ वृद्धः २ नपुंसकं ३ च क्लीबः ४ जड्डुः ५ च व्याधितः ६ । स्तेनः ७ राजापकारी ८ च, उन्मत्तः ९ च अदर्शनः १० ॥ १२४॥ दासः ११ दुष्टः १२ च मूढः १३ च ऋणार्त्तः १४ जुङ्गितः १५ इति । अवबद्धः १६ च भृतकः १७ च, शैक्षनिष्फेटिका १८ इति ॥१२५॥ ) वृत्तिः - तत्राष्टौ सप्त वा वर्षाणि यावद्बालोऽत्राभिधीयते, सप्ततिवर्षेभ्य उपरि वृद्धः अन्ये त्वाहुः अर्वागपीन्द्रियादिहानिदर्शनात् षष्टिवर्षेभ्योऽप्युपरि वृद्धोऽभिधीयते, न स्त्री न पुमान् नपुंसकं, यः स्त्रीभिर्भोगैर्निमन्त्रितोऽसंवृताया वा स्त्रियोऽङ्गोपाङ्गानि दृष्ट्वा शब्दं वा मन्मनोल्लापादिकं तासां श्रुत्वा समुद्भूतकामाभिलाषोऽधिसोढुं न शक्नोति स क्लीबः, जड्डुस्तु त्रिधा - भाषया शरीरेण करणेन च, भाषाजडः पुनरपि त्रिधा - जलमूकः मन्मनमूक: एलकमूकः, जलनिमग्न इव बुडुबूडूयमानो यो वक्ति स जलमूकः, यस्य तु वदतः खच्यमानमिव वचनं स्खलति स मन्मनमूकः, यस्त्वेलक इवाव्यक्तं मूकतया शब्दमात्रमेव करोति स एलकमूकः, यः पथि भिक्षाटने वन्दनादिषु चातीव स्थूलतयाऽशक्तो भवति स शरीरजड्डुः, करणं-क्रिया तस्यां जड्डुः करणजडुः, समितिगुप्तिप्रतिक्रमणप्रत्युपेक्षणसंयमपालनादिक्रियां पुनरसकृदुपदिश्यमानामप्यतीव जडतया यो ग्रहीतुं न शक्नोति स करणजड्ड इत्यर्थः, भगन्दरातीसारकुष्ठप्लीहशूलार्शः प्रभृतिरोगैर्ग्रस्तो व्याधितः, क्षत्रखननमार्गपातनादिचौर्यनिरतः स्तेनः, श्रीगृहान्तः पुरनृपतिशरीरतत्पुत्रादिद्रोहविधायको राजापकारी, यक्षादिना प्रबल - मोहोदयेन वा परवशतां नीत उन्मत्तः, न विद्यते दर्शनं दृक् यस्येत्यदर्शनी अन्धः, -
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy