________________
त्रिविधा विराधनाः
व्यापारोपेक्षा तत्र साम्भोगिकान् सीदतश्चोदयति । चोदयतीतरमपि प्रावचनिके कार्ये ॥१७॥
अव्यापारोपेक्षा नैव चोदयति गृहिणं सीदन्तम् । कर्मसु बहुविधेषु एष संयम उपेक्षायाम् ॥१८॥ प्रतिसागारिके अप्रमार्जितयोः पादयोः संयमो भवति । तावेव प्रमृज्यमानयोरसागारिके संयमो भवति ॥१९॥ प्राणादिसंसक्तं भक्तं पानमथवाऽपि अविशुद्धम् । उपकरणभक्तादि यद्वातिरिक्तं भवेत् ॥२०॥ तत्परिष्ठापनविधिना अपहृत्यसंयमो भवेदेषः । अकुशलमनोवचोरोधः कुशलानामुदीरणं चैव ॥२१॥ युगलं मनोवचःसंयम एष काये पुनरवश्यकार्ये । गमनागमने भवतस्ते उपयुक्तः करोति सम्यक् ॥२२॥
तद्वर्जं कूर्मस्येव सुसमाहितपाणिपादकायस्य । भवति च कायिकः संयमस्तिष्ठत एव साधोः ||२३|| )
उक्तः संयमः ॥४६॥'
गुरुरेतत्सप्तदशविधसंयमे नित्यमुद्यच्छति ।
विराधना - खण्डना । सा त्रिविधा । तद्यथा १ ज्ञानविराधना, २ दर्शनविराधना, ३ चारित्रविराधना च । यदाह श्रमणप्रतिक्रमणसूत्रे -
-
७५९
'पडिक्कमामि तिर्हि विराहणार्हि नाणविराहणाए दंसणविराहणाए चरितविराहणाए । '
( छाया - प्रतिक्रामामि त्रिभिः विराधनाभिः ज्ञानविराधनया दर्शनविराधनया चारित्रविराधना II)
-
एतासां तिसृणां विराधनानां स्वरूपमावश्यकसूत्रवृत्तेरेवं ज्ञेयम् -
ज्ञान
'प्रतिक्रामामि तिसृभिर्विराधनाभिर्योऽतिचार इत्यादि पूर्ववत्, तद्यथा विराधनयेत्यादि, तत्र विराधनं कस्यचिद्वस्तुनः खण्डनं तदेव विराधना, ज्ञानस्य विराधना
-