________________
७६०
त्रिविधा विराधनाः ज्ञानविराधना-ज्ञानप्रत्यनीकतादिलक्षणा तया, उक्तं च -
‘णाणपडिणीय णिण्हव अच्चासायण तदंतरायं च ।
कुणमाणस्सऽइयारो णाणविसंवादजोगं च ॥१॥' (छाया- ज्ञानप्रत्यनीकतां निह्नवं अत्याशातनां तदन्तरायं च ।
कुर्वतः अतिचारः ज्ञानविसंवादयोगश्च ॥१॥) तत्र प्रत्यनीकता पञ्चविधज्ञाननिन्दया, तद्यथा-आभिनिबोधिकज्ञानमशोभनं, यतस्तदवगतं कदाचित्तथा भवति कदाचिदन्यथेति श्रुतज्ञानमपि शीलविकलस्याकिञ्चित्करत्वादशोभनमेव, अवधिज्ञानमप्यरूपिद्रव्यागोचरत्वादसाधु, मनःपर्यायज्ञानमपि मनुष्यलोकावधिपरिच्छिन्नगोचरत्वादशोभनं, केवलज्ञानमपि समयभेदेन दर्शनज्ञानप्रवृत्तेरेकसमयेऽके वलत्वादशोभनमिति, निह्नवो-व्यपलापः, अन्यसकाशेऽधीतमन्यं व्यपदिशति, अच्चासायणा -
'काया वया य तेच्चिय ते चेव पमाय अप्पमाया य ।
मोक्खाहिगारिगाणं जोइसजोणीहि किं कज्जं ? ॥१॥' (छाया- काया व्रतानि च तान्येव त एव प्रमादा अप्रमादाश्च ।
मोक्षाधिकारिणां ज्योतिर्योनिभिः किं कार्यम् ? ॥१॥) इत्यादि, अन्तरायमसङ्खडास्वाध्यायिकादिभिः करोति, ज्ञानविसंवादयोगः अकालस्वाध्यायादिना । दर्शनं-सम्यग्दर्शनं तस्य विराधना दर्शनविराधना तया, असावप्येवमेव पञ्चभेदा, तत्र दर्शनप्रत्यनीकता क्षायिकदर्शनिनोऽपि श्रेणिकादयो नरकमुपगता इति निन्दया, निह्नवःदर्शनप्रभावनीयशास्त्रापेक्षया प्राग्वद् द्रष्टव्यः, अत्याशातना-किमेभिः कलहशास्त्रैरिति ?, अन्तरायं प्राग्वत्, दर्शनविसंवादयोगः शङ्कादिना । चारित्रं प्राग्निरूपितशब्दार्थं तस्य विराधना चारित्रविराधना तया - व्रतादिखण्डनलक्षणया ।'
गुरुरेतास्तिस्रो विराधनाः प्रयत्नपूर्वं वर्जयति । एवं षट्त्रिंशद्गुणसमृद्धो गुरुर्जगत्युपकारवृष्टिं करोतु ॥२१॥
इति विंशतितमी षट्त्रिशिका सम्पूर्णतामगमत् ।