SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ७५८ सप्तदशविधः संयमः चतुरङ्गुलदीर्घ वा वृत्ताकृति मुष्टिपुस्तकमथवा । चतुरङ्गुलदीर्घमेव चतुरस्रं भवति विज्ञेयम् ॥५॥ सम्पुटकं द्विकादिफलकं वक्ष्ये सृपाटिकामतः । तनुपत्रोच्छ्रितरूपा भवति सृपाटिका बुधा ब्रुवते ॥६॥ दीर्घ वा ह्रस्वं वा यत्पृथु भवत्यल्पबाहल्यम् । तज्ज्ञातसमयसाराः सृपाटिकापुस्तकं भणन्ति इह ॥७॥ द्विविधं च दूष्यपञ्चकं समासतस्तदपि भवति ज्ञातव्यम् । अप्रतिलेखितदूष्यं दुष्प्रतिलेख्यदूष्यं च विज्ञेयम् ॥८॥ अप्रतिलेखितदूष्ये तूलिका उपधानकं च ज्ञातव्यं । गण्डोपधानमालिङ्गिनी मसूरकश्चैव पोतमयः ॥९॥ (१) खरडियो (२) भूरविगा (३) सलोम पटः (४) जीर्णं (५) सदृशवस्त्रं वि.प. । प्रह्लादि कुतुपि प्रावारकः नवत्वक् तथा च दृढगालिका । दुष्प्रतिलेखितदूष्ये एतद् द्वितीयं भवेत्पञ्चकम् ॥१०॥ प्रह्लादि हस्तास्तरणं कुतुपो रुतपूरितः पटकः । दृढगाली धौतपोतं शेषाः प्रसिद्धा भवन्ति भेदाः ॥११॥ तृणपञ्चकं पुनर्भणितं जिनैः कर्माष्टकग्रन्थिदहनैः । शालिीहि: कोद्रवो रालकोऽरण्यतृणानि च ॥१२॥ अजैडगोमहिषीमगाणामजिनं च (चम)पञ्चकं भवति । तिलका खल्लकं वधू कोशकः कृत्तिश्च द्वितीये च ॥१३॥ तथा विकटहिरण्यादीनि तानि न गृह्णाति असंयमत्वात्साधुः । स्थानादि यत्र चेतयति प्रेक्ष्य प्रमाM तत्र कुर्यात् ॥१४॥ एषा प्रेक्षा उपेक्षा पुनरिह द्विविधा भवति ज्ञातव्या । व्यापाराव्यापारयोः व्यापारे यथैव ग्रामस्य ॥१५॥ एष उपेक्षकश्चैवाव्यापारे यथा विनश्यन्तम् । किमेतं नूपेक्षसे ? द्विविधयाप्यत्राधिकारः ॥१६॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy