________________
चतुर्विधा अभिग्रहाः
७४३ वृत्तिः - लेपवत् जगायदि तन्मिश्रं वा अलेपवद्वा तद्विपरीतम् अमुकं द्रव्यं वा मण्डकादि अद्य ग्रहीष्यामि, अमुकेन वा द्रव्येण दर्तीकुन्तादिना अथ अयं द्रव्याभिग्रहो नाम साध्वाचरणाविशेष इति गाथार्थः ॥२९८॥ क्षेत्राभिग्रहमाह -
अट्ठ उ गोअरभूमी, एलुगविक्खंभमित्तगहणं च ।
सग्गामपरग्गामे, एवइअ घरा य खित्तंमि ॥२९९॥ (छाया- अष्टौ तु गोचरभूमयः, एलुकविष्कम्भमात्रग्रहणं च ।
स्वग्रामपरग्रामयो-रेतावन्ति गृहाणि च क्षेत्रे ॥२९९॥) वृत्तिः - अष्टौ गोचरभूमयो वक्ष्यमाणलक्षणाः तथा एलुकविष्कम्भमात्रग्रहणं च, यथोक्तं 'एलुकं विक्खंभइत्ता' तथा स्वग्रामपरग्रामयोरेतावन्ति च गृहाणि क्षेत्र इति क्षेत्रविषयोऽभिग्रह इति गाथार्थः ॥२९९॥ गोचरभूमिप्रतिपादनायाह -
उज्जुग १ गंतुं पच्चागइआ २ गोमुत्तिआ ३ पयंगविही ४ ।
पेडा ५ य अद्धपेडा ६, अभितर ७ बार्हि संबुक्का ८ ॥३०॥ (छाया- ऋज्वी १ गत्वाप्रत्यागतिका २ गोमूत्रिका ३ पतङ्गविथि: ४ ।
पेडा ५ चार्द्धपेडा ६ अभ्यन्तरबहिः सम्बुक्का ७-८ ॥३००।) वृत्तिः - 'ऋज्वी गत्वाप्रत्यागति!मूत्रिका पतङ्गविथिः पेडा चार्द्धपेडा अभ्यन्तरबहिः संबुक्के 'ति गाथाक्षरार्थः । भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् "उज्जुगा आदिओ चेव हिंडंतो उज्जुगं जाति तोंडाउ सन्नियट्टइ, गंतुं पच्चागइयाए तोंडं गंतूण तत्थ गहणं करोति आइओ सन्नियट्टइ, गोमुत्तिया वंकोवलिया, पयंगविही अणियया पयंगुड्डणसरिसा, पेडा पेलिगा इव चउक्कोणा, अद्धपेडा इमीए चेव अद्धसंठिया घरपरिवाडी, अभितरसंबुक्का बाहिरसंबुक्का य संखणाहिवित्तोवमा, एगीए अन्तो आढवति बाहिरओ सन्नियट्टइ, इयराए विवज्जउ'त्ति (छाया- ऋजुका आदित एव हिण्डन् ऋजुकं याति तुण्डात् सन्निवर्त्तते, गत्वाप्रत्यागतिकायां तुण्डं गत्वा तत्र ग्रहणं करोति आदितः सन्निवर्त्तते, गोमूत्रिका वक्रौलिका, पतङ्गविथिः अनियता पतङ्गोड्डयनसदृशा, पेडा पेटिका इव चतुष्कोणा, अर्धपेडा अस्यामेव अर्द्धसंस्थिता गृहपरिपाटिः, अभ्यन्तरसम्बुक्का बहिःसम्बुक्का च शङ्खनाभ्यावर्तोपमा, एकस्यां अन्तः प्रारभते बहिः सन्निवर्तते, इतरस्यां विपर्यासः इति ॥३००)