________________
७४४
कालाभिग्रहमाह -
काले अभिग्गो पुण, आईमज्झे तहेव अवसाणे । अप्पत्ते सइ काले, आई बिति मज्झ तइअंते ||३०१ ॥
(छाया- काले अभिग्रहः पुनः, आदौ मध्ये तथैवावसाने । अप्राप्ते सति काले, आदौ द्वितीयो मध्ये तृतीयोऽन्ते ॥ ३०२ ॥
चतुर्विधा अभिग्रहाः
वृत्तिः - काल इति कालविषयोऽभिग्रहः पुनः, किंविशिष्टः इत्याह- आदौ मध्ये तथैवावसाने प्रतीतभिक्षावेलायाः, तथा चाह- अप्राप्ते सति काले- भिक्षाकालेऽटतः प्रथम इत्यादौ, द्वितीयो मध्य इति भिक्षाकाल एवाटतः, तृतीयोऽन्त इति भिक्षाकालावसान इति गाथार्थः ॥३०१॥
कालत्रयेऽपि गुणदोषानाह
दिंतगपडिच्छ्गाणं, हविज्ज सुहुमंपि मा हु अचिअत्तं । इइ अप्पत्त अईए, पवत्तणं मा इत्तो मज्झे ॥ ३०२ ॥ (छाया- ददत्प्रतीच्छकयोः, सूक्ष्ममपि मा भूत् खलु अप्रीतिकम् । इति अप्राप्ते अतीते, प्रवर्त्तनं मा इतो मध्ये || ३०२॥)
-
भावाभिग्रहमाह -
वृत्तिः - 'ददत्प्रतीच्छ्कयो:' गृहिभिक्षाचरयोः, मा भूत्सूक्ष्ममपि अचियत्तम् अप्रीतिलक्षणम् इति एतस्माद्धेतोः अप्राप्ते, अतीते च भिक्षाकालेऽटनं न श्रेय इति गम्यते, प्रवर्त्तनं च अधिकरणरूपं मा भूत्, ततो मध्ये भिक्षाकालमध्येऽटनं श्रेय इति गाथार्थः ॥३०२ ॥
उक्खित्तमाइचरगा, भावजुआ खलु अभिग्गहा हुंति । गाअंती अरुअंतो, जं देइ निसण्णमाई वा ॥ ३०३ ॥
(छाया - उत्क्षिप्तादिचरका, भावयुताः खलु अभिग्रहा भवन्ति । गायन् च रुदन्, यद्ददाति निषण्णादिर्वा ॥ ३०३॥)
वृत्ति: - उत्क्षिप्तादिचरा इति उत्क्षिप्ते भाजनात्पिण्डे चरति - गच्छति यः स उत्क्षिप्तचरः, एवं निक्षिप्ते भाजनादाविति भावनीयं, त एते भावयुक्ताः खल्वाभिग्रहा इत्यर्थः, गायन् रुदन् वा यद्ददाति निषण्णादिर्वेति तद्ग्राहिण इति गाथार्थः ॥ ३०३ ॥
तथा -