________________
७४२
चतुर्विधा अभिग्रहाः तस्य करणं विधानं तत् ।५। तथा चिकित्सनं चिकित्सा रोगप्रतीकारः चः समुच्चये ।६। तथा कोपः क्रोधः ।७। मानो गर्वः ।८। माया वञ्चना ।९। लोभो लुब्धता ।१०। चः पूर्ववत् भवन्ति जायन्ते दश प्रतीताः । एते अनन्तरोक्ता इति ॥५८॥ __ तथा पूर्वं दानाद्दातुः प्रशंसनं तत्पूर्वसंस्तवः । एवं दानात्पश्चादातुः प्रशंसा सा पश्चात्संस्तव इति ।११। 'विद्या' सूचनाद्विद्याप्रयोग इति । तत्र विद्या स्त्रीस्वरूपदेवताधिष्ठिता ससाधना वा ओमित्याद्यक्षरपद्धतिस्तस्याः प्रयोगो व्यापारणं सः १२, एवं मन्त्र इति मन्त्रप्रयोगः किन्तु मन्त्रः पुरुषरूपदेवताऽधिष्ठितोऽसाधनो वा । चः समुच्चये ।१३। तथा चूर्णस्तिरोधानादिफलो नयनाञ्जनादियोग्यो द्रव्यक्षोदः ।१४। योगः आकाशगमनसौभाग्यादिफलो द्रव्यसमूहः । चः पूर्ववत् ।१५। एते किमित्याह उत्पादनाया दोषाः पिण्डोपार्जनस्य दूषणानि एते पञ्चदश । तथा षड्भिरधिका दश परिमाणमस्येति षोडशं मूलकर्म चेति मिलिताः षोडश भवन्ति । तत्र मूलमालोचनादीनां दशानां प्रायश्चित्तानां मध्येऽष्टममेतत्प्राप्तिनिबन्धनं कर्मव्यापारो गर्भघातादि, मूलानां वा वनस्पत्यवयवानां कौषध्याद्यर्थं छेदादिक्रिया मूलकर्म चः समुच्चये ।१६। एतेषां मध्याद्येन कृतेन य आहारो लभ्यते स तद्दोषवानिति द्वारगाथाद्वयार्थः ॥५९॥'
गुरुरेतत्षोडशोद्गमदोषषोडशोत्पादनादोषवियुक्तं निर्दोषमाहारमभ्यवहरति ।
अभिग्रहणमभिग्रहः साध्वाचारविशेषरूपो नियमः । स चतुर्विधः । तद्यथा - १ द्रव्याभिग्रहः, २ क्षेत्राभिग्रहः, ३ कालाभिग्रहः, ४ भावाभिग्रहश्च । यदुक्तं प्रवचनसारोद्धारवृत्तौ -
'ते च गोचरविषया अभिग्रहा अनेकरूपाः, तद्यथा - द्रव्यतः क्षेत्रतः कालतो भावतश्च ॥२७०॥'
एतेषां स्वरूपमेवं प्रतिपादितं पञ्चवस्तुके तद्वृत्तौ च - 'अभिग्रहानाह -
लेवडमलेवडं वा, अमुगं दव्वं व अज्ज घिच्छामि ।
अमुगेण व दवेणं, अह दव्वाभिग्गहो चेव ॥२९८॥ (छाया- लेपवदलेपवद्वा, अमुकं द्रव्यं वा अद्य ग्रहीष्यामि ।
अमुकेन वा द्रव्येण, अथ द्रव्याभिग्रह एव ॥२९८॥