________________
४३०
चतुर्विधानि अनुयोगद्वाराणि (छाया- एवं चरणे स्थितः करोति ग्रहणं विधिना इतरेषां ।
एतेन कारणेन भवति तु चरणं महर्टिकम् ॥१०॥) वृत्तिः - एवमित्युपनयग्रन्थः, 'चरणंमि' त्ति चर्यत इति चरणं तस्मिन् व्यवस्थितः करोति विधिना ग्रहणमितरेषाम्, इतरेषामिति द्रव्यानुयोगादीनां, तदनेन कारणेन भवति चरणं महद्धिकम् । तुशब्दादन्येषां च गुणानां समर्थो भवतीति ॥१०॥'
अथवा अनुयोगार्थं महानगरस्य द्वाराणीव द्वाराणीति अनुयोगद्वाराणि । तानि चत्वारि। तद्यथा - १ उपक्रमः, २ निक्षेपः, ३ अनुगमः ४ नयश्च । यदाहुः श्रीअनुयोगद्वारसूत्रे तवृत्तौ च -
'तस्स णं इमे चत्तारि अणुओगद्दारा भवंति, तद्यथा-उवक्कमे १, णिक्खेवे २, अणुगमे ३, णए ४॥(सू० ७५)
(छाया- तस्य अमूनि चत्वारि अनुयोगद्वाराणि भवन्ति, तद्यथा-उपक्रमः १, निक्षेपः २, अनुगमः ३, नयः ४ । (सू० ७५))
वृत्तिः - तस्य सामायिकस्य, णमिति वाक्यालङ्कारे 'इमे' त्ति अमूनि वक्ष्यमाणलक्षणानि चत्वार्यनुयोगद्वाराणि भवन्ति । तत्राध्ययनार्थकथनविधिरनुयोगः, द्वाराणीव द्वाराणि महापुरस्येव सामायिकस्य, अनुयोगार्थं व्याख्यार्थं द्वाराण्यनुयोगद्वाराणि ।
अत्र नगरदृष्टान्तं वर्णयन्त्याचार्याः - यथा हि अकृतद्वारं नगरमनगरमेव भवति, निर्गमप्रवेशोपायाभावतोऽनधिगमनीयत्वात् । कृतैकद्विकादिद्वारमपि दुरधिगम कार्यातिपत्तये च भवति । चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च सम्पद्यते । एवं सामायिकपुरमप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगमं स्यात्, एकादिद्वारानुगतमपि दुरधिगमं भवेत्, सप्रभेदचतुर्वारानुगतं तु सुखाधिगमं भवति, अतः फलवांस्तदधिगमार्थो द्वारोपन्यासः ।
कानि पुनस्तानीति तदर्शनार्थमाह - तद्यथेत्यादि । तत्रोपक्रमणं दूरस्थस्य वस्तुनस्तैः तैः प्रतिपादनप्रकारैः समीपमानीय निक्षेपयोग्यताकरणमुपक्रमः, उपक्रान्तं हि उपक्रमान्तर्गतभेदैविचारितं हि निक्षिप्यते, नान्यथेति भावः । उपक्रम्यते वा निक्षेपयोग्यं क्रियतेऽनेन गुरुवाग्योगेनेत्युपक्रमः, अथवा उपक्रम्यते अस्मिन् शिष्यश्रवणभावे सतीत्युपक्रमः, अथवा उपक्रम्यते अस्माद्विनीतविनयविनयादित्युपक्रमः, विनयेनाराधितो हि गुरुनिक्षेपयोग्यं शास्त्रं