________________
लोहविषयश्चतुर्थ आकरो भवति, चशब्दो मृदुकठिनमध्य
चतुर्विधा अनुयोगाः लोहमयस्तस्मिन् लोहे लोहभेदसमुच्चायकः । चत्वारः इतिसङ्ख्याः । आक्रियन्त एतेष्वित्याकराः, तथा च मर्यादयाऽभिविधिना वा क्रियन्ते वज्रादीनि तेष्विति । खलुशब्दो विशेषणे, किं विशिनष्टि ? सविषयाः सहस्त्यादयश्च ते पुत्रेभ्यो दत्ताः, चतुर्णां पुत्राणां सुतानां ते इत्याकरा दत्ताः विभक्ता इत्यर्थः ॥८॥
अधुना प्रदानोत्तरकालं यत्तेषां सञ्जातं तदुच्यते
—
-
चिंता लोहागरिए पडिसेहं सो उ कुणइ लोहस्स । वयराईहि अ गहणं करिंति लोहस्स तिन्नियरे ॥ ९ ॥
(छाया - चिन्ता लोहाकरिके प्रतिषेधं स तु करोति लोहस्य । वज्रादिभिश्च ग्रहणं कुर्वन्ति लोहस्य त्रय इतरे ॥ ९ ॥ )
वृत्तिः - लोहाकरो ऽस्यास्तीति लोहाकरिकस्तस्मिन् लोहाकरिके चिन्ता भवति, राज्ञा परिभूतोऽहं येन ममाप्रधान आकरो दत्तः, एवं चिन्तायां सत्यां सुबुद्ध्यभिधानेन मन्त्रिणा - ऽभिहितः - देव ! मा चिन्तां कुरु, भवदीय एव प्रधान आकरो न शेषा आकइति । एतदवसीयते ? यदि भवत्सम्बन्धी लोहाकरो न भवति तदानीं शेषाकराऽप्रवृत्तिः लोहोपकरणाभावात्, ततोऽनिर्वाहं भवान् कारयतु कतिचिद्दिनानि यावदुपक्षयं प्रतिपद्यते तेषूपकरणजातं, ततः सुमहार्घमपि ते लोहं ग्रहीष्यन्तीत्यत आह- 'पडिसेहं' इत्यादि, प्रतिषेधो- वारणा तं प्रतिषेधं करोत्यसौ लोहं प्रतीतमेव तस्य लोहस्य, तुशब्दो विशेषणे, न केवलमनिर्वाहं करोत्यपूर्वोत्पादनिरोधं च ततश्चैवं कृते शेषाकरेषूपस्कराः क्षयं प्रतिपन्नाः, ततस्ते वज्रादिभिर्ग्रहणं कुर्वन्ति, कस्य ? इत्यत आह लोहस्य, के कुर्वन्ति ? इतरे वज्राकरिकादयः । चशब्दान्न केवलं वज्रादिभिर्हस्त्यादिभिश्च । अत्र कथानकं स्पष्टत्वान्न लिखितम्, अयं दृष्टान्तः, साम्प्रतं दार्ष्यन्तिकयोजना क्रियते यथाऽसौ लोहाकर आधारभूतः शेषाकराणां, तत्प्रवृत्तौ शेषाणामपि प्रवृत्तिः, एवमत्रापि चरणकरणानुयोगे सति शेषानुयोग - सद्भावः, तथाहि - चरणे व्यवस्थितः शेषानुयोगग्रहणे समर्थो भवति नान्यथेति ॥९॥
अस्यार्थस्य प्रतिपादनार्थं गाथासूत्रमाह
—
४२९
एवं चरणमि ठिओ करेइ गहणं विहीइ इयरेसिं । एएण कारणेणं हवइ उ चरणं महिड्डीअं ॥१०॥