________________
४२८
चतुर्विधा अनुयोगाः चरणपडिवत्तिहेडं धम्मकहा कालदिक्खमाईआ।
दविए दंसणसुद्धी दंसणसुद्धस्स चरणं तु ॥७॥ (छाया- चरणप्रतिपत्तिहेतुः धर्मकथा कालदीक्षादिका ।
द्रव्ये दर्शनशुद्धिः दर्शनशुद्धस्य चरणं तु ॥७॥) वृत्तिः - चर्यत इति चरणं-व्रतादि तस्य प्रतिपत्तिश्चरणप्रतिपत्तिश्चरणप्रतिपत्तेः हेतुः कारणं निमित्तमिति पर्यायाः किम् तदाह - धर्मकथा दुर्गतौ प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मस्तस्य कथा-कथनं धर्मकथा चरणप्रतिपत्तेर्हेतुर्धर्मकथा, तथाहि - आक्षेपण्यादिधर्मकथाऽऽक्षिप्ताः सन्तो भव्यप्राणिनश्चारित्रं प्राप्नुवन्ति । 'कालदिक्खमाइय' त्ति कलनं कालः कलासमूहो वा कालस्तस्मिन् काले दीक्षादयः-दीक्षणं दीक्षा-प्रव्रज्याप्रदानम् आदिशब्दादुपस्थापनादिपरिग्रहः, तथा च शोभनतिथिनक्षत्रमुहूर्तयोगादौ प्रव्रज्याप्रदानं कर्त्तव्यम्, अत: कालानुयोगोऽप्यस्यैव परिकरभूत इति । 'दविए'त्ति द्रव्ये द्रव्यानुयोगे, किं भवति ?, इत्यत आह-दर्शनशुद्धिः दर्शनं-सम्यग्दर्शनमभिधीयते तस्य शुद्धिः-निर्मलता दर्शनशुद्धिः, एतदुक्तं भवति-द्रव्यानुयोगे सति दर्शनशुद्धिर्भवति, युक्तिभिर्यथाऽवस्थितार्थपरिच्छेदात्, तदत्र चरणमपि युक्त्यनुगतमेव ग्रहीतव्यं, न पुनरागमादेव केवलादिति । आह - दर्शनशुद्ध्यैव किम् ?, तदाह - दर्शनशुद्धस्य दर्शनं शुद्धं यस्यासौ दर्शनशुद्धस्तस्य चरणं चारित्रं भवतीत्यर्थः, तुशब्दो विशेषणे, चारित्रशुद्धस्य दर्शनमिति ।।७।।
अथवा प्रकारान्तरेण चरणकरणानुयोगस्यैव प्राधान्यं प्रतिपाद्यते आदिभूतस्यापीति, तच्च दृष्टान्तबलेनाचलं भवति नान्यथेत्यतो दृष्टान्तद्वारेणाह -
जह रण्णो विसएसुं वयरे कणगे अरयय लोहे अ।
चत्तारि आगरा खलु चउण्ह पुत्ताण ते दिन्ना ॥८॥ (छाया- यथा राज्ञो विषयेषु वजे कनके च रजते लोहे च ।
चत्वार आकराः खलु चतुर्णां पुत्राणां ते दत्ताः ॥८॥) वृत्तिः - 'यथे'त्युदाहरणोपन्यासे राज्ञो विषयेषु जनपदेषु वज्र इति वज्राकरो भवति, वज्राणि-रत्नानि तेषामाकरः-खानिर्वजाकरः । 'चिंता लोहागरिए'त्ति इत्यतः सिंहावलोकनन्यायेनाकरग्रहणं सम्बध्यते, एतेन कारणेन ‘होति उत्ति इत्यस्माद्भवति क्रिया सर्वत्र मीलनीयेति । कनकं सुवर्णं तस्याकरो भवति द्वितीयः । रजतं रूप्यं तद्विषयश्च तृतीय आकरो भवति, चशब्दः समुच्चये, अनेकभेदभिन्नं रूप्याकरं समुच्चिनोति । लोहे चेति