________________
चतुर्विधा अनुयोगाः
४२७ विशिष्टसङ्ख्यावगमो भवति विशिष्टपदोपन्यासेऽपि, कुतः ?, चरणधर्मगणितद्रव्यपदानि सन्ति, अन्यान्यपि सन्तीति संशयोऽत्र माभूत्कस्यचिदित्यतश्चतुर्ग्रहणं क्रियत इति । तथा यच्चोक्तं - भिन्नया विभक्त्या चरणपदं केन कारणेनोपन्यस्तम् ?, तत्रैतत्प्रयोजनं, चरणकरणानुयोग एवात्राधिकृतः, प्राधान्यख्यापनार्थं भिन्नया विभक्त्या उपन्यास इति । तथा धर्मगणितानुयोगौ एकविभक्त्योपन्यस्तौ अत्र प्रकमेऽप्रधानावेताविति । तथा द्रव्यानुयोगे च भिन्नविभक्त्युपन्यासे प्रयोजनं, अयं हि एकैकानुयोगे मीलनीयः, न पुनलौकिकशास्त्रवद्युक्तिभिर्न विचारणीय इति । तथाऽनुयोगशब्दद्वयोपन्यासे प्रयोजनमुच्यते यत्त्रयाणां पदानामन्तेऽनुयोगपदमुपन्यस्तं तदपृथक्त्वानुयोगप्रतिपादनार्थं, यच्च द्रव्यानुयोग इति तत् पृथक्त्वानुयोगप्रतिपादनार्थमिति ॥५॥ ___ एवं व्याख्याते सत्याह परः-इह गाथासूत्रपर्यन्त इदमुक्तं - यथाक्रमं ते महद्धिका इति, एवं तर्हि चरणकरणानुयोगस्य लघुत्वं, तत्किमर्थं तस्य नियुक्तिः क्रियते ?, अपि तु द्रव्यानुयोगस्य युज्यते कर्तुं, सर्वेषामेव प्रधानत्वात्, एवं चोदकेनाक्षेपे कृते सत्युच्यते -
सविसयबलवत्तं पुण जुज्जइ तहवि अ महिड्डिअंचरणं ।
चारित्तरक्खणट्ठा जेणिअरे तिन्नि अणुओगा ॥६॥ (छाया- स्वविषयबलवत्त्वं पुनर्युज्यते तथापि च महद्धिकं चरणम् ।
चारित्ररक्षणार्थं येनेतरे त्रयोऽनुयोगाः ॥६॥) वत्तिः - स्वश्चासौ विषयश्च स्वविषयस्तस्मिन् स्वविषये बलवत्त्वं पुनर्युज्यते घटते, एतदुक्तं भवति-आत्मीयात्मीयविषये सर्व एव बलवन्तो वर्तन्त इति । एवं व्याख्याते सत्यपरस्त्वाह - यद्येवं सर्वेषामेव नियुक्तिकरणं प्राप्तं, आत्मीयात्मीयविषये सर्वेषामेव बलवत्त्वात्, तथाऽपि चरणकरणानुयोगस्य न कर्त्तव्येति, एवं चोदकेनाशङ्किते सत्याह गुरुः - 'तहवि अ महिड्डिअं चरणं' तथापि एवमपि स्वविषयबलवत्त्वेऽपि सति महद्धिकं चरणमेव, शेषानुयोगानां चरणकरणानुयोगार्थमेवोपादानात्, पूर्वोत्पन्नसंरक्षणार्थमपूर्वप्रतिपत्त्यर्थं च शेषानुयोगा अस्यैव वृत्तिभूताः, यथा हि कर्पूरवनखण्डरक्षार्थं वृत्तिरुपादीयते, तत्र हि कर्पूरवनखण्डमेव प्रधानं न पुनर्वृत्तिः । एवमत्रापि चारित्ररक्षणार्थं शेषानुयोगानामुपन्यासात्, तथा चाह - 'चारित्तरक्खणट्ठा जेणियरे तिन्नि अनुयोगा' चयरिक्तीकरणाच्चारित्रं तस्य रक्षणं तदर्थं चारित्ररक्षणार्थं येन कारणेन इतरे इति धर्मानुयोगादयस्त्रयोऽनुयोगा इति ॥६॥
एवं व्याख्याते सत्याह - कथं चारित्ररक्षणार्थमिति चेत्तदाह -