________________
चतुर्विधा अनुयोगाः
भूतप्रवृत्तिश्चैषा चन्दनगन्धन्यायेन । तदुत्तीर्णाशयेति चाऽसच्चित्ताऽभावेन ॥१७८॥'
गुरुरष्टानां योगदृष्टीनां निखिलं स्वरूपं सम्यग् जानाति ।
अनुयोगाः सूत्रार्थव्याख्यानरूपाः । ते चत्वारः । तथा I १ चरणकरणानुयोगः, २ धर्मकथानुयोगः, ३ गणितानुयोगः ४ द्रव्यानुयोगश्च । यदवोचत् श्री ओघनिर्युक्तौ तद्वृत्तौ च
४२६
-
'चत्तारि उ अणुओगा चरणे धम्मगणियाणुओगे य । विजोगे यता अहक्कमं ते महिड्डीया ॥५॥
(छाया - चत्वारस्तु अनुयोगा चरणे धर्मगणितानुयोगे च । द्रव्यानुयोगे च तथा यथाक्रमं ते महर्द्धिकाः ॥५॥ )
वृत्ति: - चत्वार इति सङ्ख्यावाचकः शब्दः, अनुकूला अनुरूपा वा योगाः अनुयोगाः, तुशब्द एवकारार्थः, चत्वार एवैते । अन्ये तु तुशब्दं विशेषार्थं व्याख्यानयन्ति कि विशेषयन्तीति- चत्वारोऽनुयोगाः, तुशब्दाद् द्वौ च - पृथक्त्वापृथक्त्वभेदात् । कथं चत्वारो - ऽनुयोगाः ? इत्याह – ‘चरणे धम्मगणियाणुओगे य' चर्यत इति चरणं, तद्विषयोऽनुयोगश्चरणानुयोगस्तस्मिन् चरणानुयोगे, अत्र चोत्तरपदलोपादित्थमुपन्यासः, अन्यथा चरणकरणानुयोगे इत्येवं वक्तव्यं स चैकादशाङ्गरूपः । ' धम्म 'त्ति धारयतीति धर्मः, दुर्गतौ प्रपतन्तं सत्त्वमिति, तस्मिन् धर्मे धर्मविषये द्वितीयोऽनुयोगो भवति, स चोत्तराध्ययनप्रकीर्णरूपः । ‘गणियाणुओगे य' त्ति गण्यते इति गणितं तस्यानुयोगो गणितानुयोग:, तस्मिन् गणितानुयोगे गणितानुयोगविषये तृतीयो भवति, स च सूर्यप्रज्ञप्त्यादिरूपः । चशब्दः प्रत्येकमनुयोगपदसमुच्चायकः । 'दवियणुओगे' त्ति द्रवतीति द्रव्यं तस्यानुयोगो द्रव्यानुयोगः - सदसत्पर्यालोचनारूप:, स च दृष्टिवादः चशब्दादनार्ष: सम्मत्यादिरूपश्च, तथेति क्रमप्रतिपादक:, आगमोक्तेन प्रकारेण यथाक्रमं यथापरिपाट्येति, चरणकरणानुयोगाद्या महर्द्धिकाः प्रधाना इति यदुक्तं भवति । एवं व्याख्याते सत्याह पर:- 'चरणे धम्मगणियाणुओगे य दवियणुओगे य' त्ति यद्येतेषां भेदेनोपन्यासः क्रियते तत्किमर्थं चत्वार ? इत्युच्यते, विशिष्टपदोपन्यासादेवायमर्थोऽवगम्यत इति, तथा चरणपदं भिन्नया विभक्त्या किमर्थमुपन्यस्तं ? धर्मगणितानुयोगौ तु एकयैव विभक्त्या, पुनर्द्रव्यानुयोगो भिन्नया विभक्त्येति, तथानुयोगशब्दश्चैक एवोपन्यसनीयः, किमर्थं द्रव्यानुयोग इति भेदेनोपन्यस्त इति ?, अत्रोच्यते, यत्तावदुक्तं चतुर्ग्रहणं न कर्त्तव्यं विशिष्टपदोपन्यासात्, तदसत् यतो न