________________
अष्टविधा योगदृष्टयः
४२५ चारायां तु (अ)प्रक्षीणनयनपटलोपद्रवस्य तदुत्कोपादिनाऽवबोधकल्पमनित्यमपि भवति, तथातिचारभावात् रत्नप्रभायामपि(मिव) धूल्यादेरुपद्रवः । प्रत्याहारवदेव च 'स्वविषयाऽसम्प्रयोगे स्वचित्तस्वरूपानुकारी चेन्द्रियाणां प्रत्याहारः ।' (यो० सू० २-५४) तद्वदेतद्दर्शनं, कृत्यं वन्दनादि, अभ्रान्तं क्रममधिकृत्य । अत एव, अनघमनतिचारत्वात् । एतदेव विशेष्यते, सूक्ष्मबोधसमन्वितं-ग्रन्थिभेदावेद्यसंवेद्यपदोपपत्तेरिति ॥१५४॥ तथा च षष्ठी दृष्टिमभिधातुमाह -
कान्तायामेतदन्येषां प्रीतये धारणा परा ।
अतोऽत्र नान्यमुन्नित्यं मीमांसास्ति हितोदया ॥१६२॥ वृत्तिः - कान्तायां-दृष्टौ एतदनन्तरोदितं नित्यदर्शनादि अन्येषां प्रीतये भवति, न तु द्वेषाय । तथा धारणा परा-प्रधाना चित्तस्य देशबन्धलक्षणा । यथोक्तम् 'देशबन्धश्चित्तस्य धारणा।' (३-१ पायो०सू०)। अतो-धारणातः अत्र दृष्टौ, नान्यमुद्-नान्यत्र हर्षः, तदा तत्तत्प्रतिभासाऽयोगात् । तथा नित्यं सर्वकालं, मीमांसास्ति-सद्विचारात्मिका । अत एवाह हितोदया सम्यग्ज्ञानफलत्वेन ॥१६२॥ प्रतिपादिता षष्ठी दृष्टिः । साम्प्रतं सप्तम्युच्यते -
ध्यानप्रिया प्रभा प्रायो नास्यां रुगत एव हि।
तत्त्वप्रतिपत्तियुता विशेषेण शमान्विता ॥१७०॥ वृत्तिः - अवयवार्थं त्वाह-ध्यानप्रिया-ध्यानवल्लभा विक्षेपोद्वेगात् प्रभा दृष्टिः प्रायः बाहुल्येन न अस्यां दृष्टौ रुग्-वेदना अत एव हि तथा तत्त्वप्रतिपत्तियुता विशेषेण, एवं सत्प्रवृत्तिपदावहेति पिण्डार्थः ॥१७०॥ उक्ता सप्तमी दृष्टिः । अधुनानन्तरोच्यते । तदाह -
समाधिनिष्ठा तु परा तदासङ्गविवर्जिता ।
सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाशयेति च ॥१७८॥ वृत्तिः - समाधिनिष्ठा तु पराऽष्टमी दृष्टिः 'समाधिस्तु ध्यानविशेषः' (तत्) फलमित्यन्ये । यथोक्तं 'देशबन्धश्चित्तस्य धारणा।' (३-१ पा०) 'तत्र प्रत्ययैकतानता ध्यानम् ।' (३-२ पा०) 'तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ।' (३-३ पा०) इति ॥ तदासङ्गविवर्जिता-समाध्यासङ्गविवर्जिता सात्मीकृतप्रवृत्तिश्च-सात्मी