________________
४२४
अष्टविधा योगदृष्टयः अधुना तारोच्यते । तदत्राह -
तारायां तु मनाक्स्पष्टं, नियमश्च तथाविधः ।
अनुद्वेगो हितारम्भे, जिज्ञासा तत्त्वगोचरा ॥४१॥ वृत्तिः - तारायां पुनदृष्टौ किमित्याह - मनाक्स्पष्टं दर्शनमिति वर्तते 'मित्रायां दर्शनं मन्दं' (श्लो०-२१) इत्यतः, नियमश्च तथाविधः शौचादिरिच्छादिरूप एव 'शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ।' (यो० सू० २-३२) इति वचनात् । तदत्र द्वितीययोगात्प्रतिपत्तिरपि, मित्रायां त्वेतदभाव एव, तथाविधक्षयोपशमाभावात् । तथानुद्वेगो हितारम्भे पारलौकिकेऽखेदसहितः, अत एव तत्सिद्धिः । तथा जिज्ञासा तत्त्वगोचरा अद्वेषत एव तत्प्रतिपत्त्यानुगुण्यमिति ॥४१॥ उक्ता तारा । अधुना बलोच्यते, तदत्राह -
सुखासनसमायुक्तं, बलायां दर्शनं दृढम् ।
परा च तत्त्वशुश्रूषा, न क्षेपो योगगोचरः ॥४९॥ वृत्तिः - सुखासनसमायुक्तमिति स्थिरसुखासनवत् बलायां दृष्टौ दर्शनं प्रागुक्तं दृढं काष्ठाग्निकणोपममिति कृत्वा, परा च तत्त्वशुश्रूषा जिज्ञासासम्भवेति । न क्षेपो योगगोचरः तदनुद्वेगज इति कृत्वा ॥४९॥ उक्ता बला, साम्प्रतं दीप्रामाह -
प्राणायामवती दीप्रा, न योगोत्थानवत्यलम् । ___ तत्त्वश्रवणसंयुक्ता, सूक्ष्मबोधविवर्जिता ॥७॥ वृत्तिः - प्राणायामवती चतुर्थाङ्गभावतः भावरेचकादिभावात् दीप्रा-चतुर्थी दृष्टिः, न योगोत्थानवती-तथाविधप्रशान्तवाहितालाभेन अलमत्यर्थम् तत्त्वश्रवणसंयुक्ता शुश्रूषाफलभावेन सूक्ष्मबोधविवर्जिता-निपुणबोधरहितेत्यर्थः ॥५७।। एवं सप्रपञ्चं चतुर्थी दृष्टिमभिधाय पञ्चमीमभिधातुमाह -
स्थिरायां दर्शनं नित्यं, प्रत्याहारवदेव च ।
कृत्यमभ्रान्तमनघं सूक्ष्मबोधसमन्वितम् ॥१५४॥ वृत्तिः - स्थिरायां दृष्टौ, दर्शनं-बोधलक्षणं, नित्यमप्रतिपाति निरतिचारायाम्, साति