________________
चतुर्विधानि अनुयोगद्वाराणि
४३१
करोतीति भावः । तदेवं करणाऽधिकरणाऽपादानकारकैर्गुरुवाग्योगादयोऽर्था भेदेनोक्ताः । यदि त्वेकोऽप्यन्तरोऽर्थः करणादिकारकवाच्यत्वेन विवक्ष्यते तथापि न दोषः ।
एवं निक्षेपणं शास्त्रादेर्नामस्थापनादिभेदैर्न्यसनं व्यवस्थापनं निक्षेपः, निक्षिप्यते नामादिभेदैर्व्यवस्थाप्यते अनेनास्मिन्नस्मादिति वा निक्षेपः, वाच्यार्थविवक्षा तथैव ।
एवमनुगमनं सूत्रस्यानुकूलमर्थकथनमनुगमः, अथवा अनुगम्यते व्याख्यायते सूत्रमनेनास्मिन्नस्मादिति वाऽनुगमः, वाच्यार्थविवक्षा तथैव ।
एवं नयनं नयः, नीयते परिच्छिद्यते अनेनास्मिन्नस्मादिति वा नयः, सर्वत्रानन्तधर्माध्यासिते वस्तुन्येकांशग्राहको बोध इत्यर्थः । (सू० ७५) '
गुरुश्चतुर्षु अनुयोगेषु अनुयोगद्वारेषु च कुशलो भवति । एवं षट्त्रिंशद्गुणो गुरुः सर्वत्र जयमवाप्नोतु ॥८॥ इति सप्तमी षट्त्रिशिका समाप्ता ।
+ गंठीसहिए मासे, अट्ठावीसं हवंति उववासा । जसत्ति मुत्तिहेतुं भवियजणा कुणह तवमेयं ॥
ગ્રન્થિસહિત પચ્ચક્ખાણ કરવાથી મહિનામાં અઠ્યાવીસ ઉપવાસનો લાભ થાય છે. તેથી હે ભવ્યજનો મુક્તિ માટે શક્તિ મુજબ આ તપ કરો.
+
जम्हा छत्थाणं आणं मुत्तुं न मुक्खमग्गम्मि ।
विज्जइ किंचि पमाणं तम्हा उ जइज्ज मेराए ॥
જે કારણથી છદ્મસ્થોને મોક્ષમાર્ગમાં આજ્ઞા સિવાય કંઈ પ્રમાણ નથી તે કારણથી આજ્ઞાપાલનમાં યત્ન કરવો.
जो आणं अवमन्नइ सो तित्थयरं गुरुं च धम्मं च ।
आणं च अडकतो दीहं परिभमइ संसारे ॥
જે આજ્ઞાને અવગણે છે તે તીર્થંકરને, ગુરુને અને ધર્મને અવગણે છે. આજ્ઞાને ઓળંગનારો સંસારમાં લાંબા કાળ સુધી ભમે છે.