SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ७०२ चतुर्दश प्रतिरूपप्रमुखगुणाः ह्रस्वाक्षराणि मध्येन, येन कालेन पञ्च भण्यन्ते । आस्ते शैलेशीगतः, तावन्मात्रं सकः कालम् ॥३०६८।। तनुरोधारम्भाद्, ध्यायति सूक्ष्मक्रियानिवृत्तिं सः । व्युच्छिन्नक्रिय-मप्रतिपाति शैलेशीकाले ॥३०६९॥ तदसङ्ख्येयगुणायां, गुणश्रेणौ रचितं पुरा कर्म । समये समये क्षपयित्वा, क्रमेण सर्वं तत्र कर्म ॥३०८२।। ऋजुश्रेणिप्रतिपन्नः, समयप्रदेशान्तरमस्पृशन् । एकसमयेन सिध्यति, अथ साकारोपयुक्तः सः ॥३०८८॥) गुरुरेतेषां चतुर्दशानां गुणस्थानानां स्वरूपस्य ज्ञाने प्रतिपादने च कुशलो भवति । प्रतिरूपः - सुन्दरः, स प्रमुखः - आदौ येषु गुणेषु ते प्रतिरूपप्रमुखगुणाः । ते चतुर्दश । तद्यथा - १ प्रतिरूपः, २ तेजस्वी, ३ युगप्रधानागमः, ४ मधुरवाक्यः, ५ गम्भीरः, ६ धृतिमान, ७ उपदेशपरः, ८ अप्रतिस्रावी, ९ सौम्यः, १० सङ्ग्रहशीलः, ११ अभिग्रहमतिकः, १२ अविकत्थनः, १३ अचपल: १४ प्रशान्तहृदयश्च । यदवादि उपदेशमालायां सिद्धर्षिगणिकृततद्वत्तौ च - 'पडिरूवो तेयस्सी, जुगप्पहाणागमो महुरवक्को । गंभीरो धीमंतो, उवएसपरो य आयरिओ ॥१०॥ अपरिस्सावी सोमो, संगहसीलो अभिग्गहमईय । अविकत्थणो अचवलो पसंतहियओ गुरू होइ ॥११॥ (छाया- प्रतिरूपस्तेजस्वी, युगप्रधानागमो मधुरवाक्यः । गम्भीरो धीमान्, उपदेशपरश्च आचार्यः ॥१०॥ अप्रतिस्रावी सौम्यः, सङ्ग्रहशीलः अभिग्रहमतिकः । अविकत्थनो अचपलः प्रशान्तहृदयो गुरुः भवति ॥११॥ वृत्तिः - प्रतिनियतं विशिष्टाऽवयवरचनया रूपं यस्य स प्रतिरूपः = प्रतिविभक्ताङ्गः, अनेन शरीरसम्पदमाह । प्रधानगुणयोगितया वा तद्गोचरबुद्धिजनकत्वात्तीर्थकरादीनां प्रतिरूप: = प्रतिबिम्बाकारः, तेजस्वी = दीप्तिमान् । युगं वर्तमानकालस्तस्मिन् प्रधानः शेषजना
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy