________________
७००
चतुर्दश गुणस्थानानि प्रतिपित्सुर्योगनिरोधार्थमुपक्रमते । तत्र पूर्वं बादरकाययोगेन बादरमनोयोगं निरुणद्धि, ततो वाग्योगम्, ततः सूक्ष्मकाययोगेन बादरकाययोगम्, तेनैव सूक्ष्ममनोयोगं सूक्ष्मवाग्योगं च, सूक्ष्मकाययोगं तु सूक्ष्मक्रि यमनिवर्तिशुक्लध्यानं ध्यायन् स्वावष्टम्भेनैव निरुणद्धि, अन्यस्यावष्टम्भनीयस्य योगान्तरस्य तदाऽसत्त्वात् । तद्ध्यानसामर्थ्याच्च वदनोदरादिविवरपूरणेन सङ्कचितदेहविभागवर्तिप्रदेशो भवति । तदनन्तरं समुच्छिन्नक्रियमप्रतिपाति शुक्लध्यानं ध्यायन् मध्यमप्रतिपत्त्या हुस्वपञ्चाक्षरोगिरणमात्रं कालं शैलेशीकरणं प्रविशति । तत्र शैलेश:-मेरुः तस्येयं स्थिरता-साम्यावस्था शैलेशी, यद्वा सर्वसंवरः शीलं तस्य य ईश: शीलेश: तस्येयं योगनिरोधावस्था शैलेशी, तस्याः करणं-पूर्वविरचितशैलेशीसमयसमानगुणश्रेणीकस्य वेदनीयनामगोत्राख्याऽघातिकर्मत्रितयस्याऽसङ्ख्येयगुणया श्रेण्या आयुःशेषस्य तु यथास्वरूपस्थितया श्रेण्या निर्जरणं शैलेशीकरणम् । तच्चासौ प्रविष्टोऽयोगी स चासौ केवली च अयोगिकेवली। अयं च शैलेशीकरणचरमसमयानन्तरमुच्छिन्नचतुर्विधकर्मबन्धनत्वाद् अष्टमृत्तिकालेपलिप्ताऽधोनिमग्नक्रमाऽपनीतमृत्तिकालेपजलतलमर्यादोर्ध्वगामितथाविधाऽलाबुवद् ऊर्ध्वं लोकान्ते गच्छति, न परतोऽपि, मत्स्यस्य जलकल्पगत्युपष्टम्भिधर्मास्तिकायाऽभावात् । स चोर्ध्वं गच्छन् ऋजुश्रेण्या यावत्स्वाकाशप्रदेशेष्विहावगाढस्तावत एव प्रदेशानूर्ध्वमप्यवगाहमानो विवक्षितसमयाच्च समयान्तरमसंस्पृशन् गच्छति । तदुक्तमावश्यकचूर्णी -
'जत्तिए जीवो अवगाढो तावइयाए ओगाहणाए उडे उज्जुगं गच्छड् न वंकं, बीयं च समयं न फुसइ ॥' (पूर्वार्द्ध पत्र ५८२) इति ॥
(छाया- यावत्यां जीवोऽवगाढस्तावत्याऽवगाहनया ऊर्ध्वमृजुकं गच्छति न वक्रम्, द्वितीयं च समयं न स्पृशति ॥) दुःषमान्धकारनिमग्नजिनप्रवचनप्रदीपप्रतिमाः श्रीजिनभद्रगणिपूज्या अप्याहुः -
'पज्जत्तमित्तसन्निस्स, जत्तियाइं जहन्नजोगिस्स । हुंति मणोदव्वाइं, तव्वावारो य जम्मत्तो ॥३०५९॥ तदसंखगुणविहीणं, समए समए निरंभमाणो सो । मणसो सव्वनिरोहं, कुणइ असंखिज्जसमएहि ॥३०६०॥ पज्जत्तमित्तबिंदिय-जहन्नवइजोगपज्जया जे उ। तदसंखगुणविहीणे, समए समए निरंभंतो ॥३०६१॥