________________
६९९
चतुर्दश गुणस्थानानि (छाया- परिणामालम्बनग्रहणकारणं तेन लब्धनामत्रिकम् ।
___ कार्याभ्यासान्योऽन्यप्रवेशविषमीकृतप्रदेशम् ॥४॥) तत्र भगवतो मनोयोगो मन:पर्यायज्ञानिभिरनुत्तरसुरादिभिर्वा मनसा पृष्टस्य सतो मनसैव देशनात्, ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि मनःपर्यायज्ञानेनाऽवधिज्ञानेन वा पश्यन्ति, दृष्ट्वा च ते विवक्षितवस्त्वाकारान्यथानुपपत्त्या लोकस्वरूपादिबाह्यमर्थमवगच्छन्तीति । वाग्योगो धर्मदेशनादौ । काययोगो निमेषोन्मेषचङ्क्रमणादौ । ततोऽनेन योगत्रयेण सह वर्तत इति सयोगी 'सर्वादेरिन्' (सि० ७-२-५९) इतीन् प्रत्ययः । केवलं-केवलज्ञानं केवलदर्शनं च विद्यते यस्य स केवली, सयोगी चासौ केवली च सयोगिकेवली, तस्य गुणस्थानं सयोगिकेवलिगुणस्थानम् १३ ।
तथा न विद्यन्ते योगाः पूर्वोक्ता यस्यासावयोगी । कथमयोगित्वमसावुपगच्छति ? इति चेद् उच्यते - स भगवान् सयोगिकेवली जघन्यतोऽन्तर्मुहूर्तम् उत्कृष्टतो देशोनां पूर्वकोटि विहृत्य कश्चित् कर्मणां समीकरणार्थं समुद्घातं करोति, यस्य वेदनीयादिकमायुषः सकाशादधिकतरं भवति, अन्यस्तु न करोति । यदाहुः श्रीआर्यश्यामपादा:'सव्वे वि णं भंते ! केवली समुग्घायं गच्छंति ? गोयमा ! नो इणढे समढे। जस्साउएण तुल्लाइं, बंधणेहि ठिईहि य ।। भवोवग्गाहिकम्माइं, न समुग्घायं स गच्छइ ॥ अगंतूणं समुग्घायं, अणंता केवली जिणा ।
जरमरणविप्पमुक्का , सिद्धि वरगइं गया ॥' (प्रज्ञा० पत्र ६०१-१) (छाया- सर्वेऽपि खलु भदन्त ! केवलिनः समुद्घातं गच्छन्ति ? गौतम ! नायमर्थः समर्थः ।
यस्य आयुषा तुल्यानि, बन्धनैः स्थितिभिश्च । भवोपग्राहिकर्माणि, न समुद्घातं स गच्छति ॥ अगत्वा समुद्घातं, अनन्ताः केवलिनो जिनाः । जरामरणविप्रमुक्ताः, सिद्धिं वरगतिं गताः ॥) अत्र 'बंधणेहि ति बध्यन्त इति बन्धनानि 'भुजिपत्यादिभ्यः कर्मोपादाने' (सि० ५-३-१२८) इति कर्मण्यनट्, कर्मपरमाणवस्तैः, शेषं सुगमम् । समुद्धातस्वरूपं च स्वोपज्ञषडशीतिटीकायां विस्तरतः प्ररूपितं तत एवावधारणीयम् । गत्वा वाऽगत्वा वा समुद्घातम् । भवोपग्राहिकर्मक्षपणाय लेश्यातीतमत्यन्ताप्रकम्पं परमनिर्जराकारणं ध्यानं