SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ६९८ चतुर्दश गुणस्थानानि सं०लो० सं०माया सं०मा० संक्रो० पु०वे० | हस्य | रति | अरति शोक | भय | जुगुप्सा | स्त्रीवे० नवे० अप्र०क्रो० प्र०क्रो० अप्र०मा० प्र०मा० अप्र०माया प्र०माया अप्र०लो० प्र०लो० | स०मो० मिश्रमो० मि०मो० अ०क्रो० अ०मा० अ०माया अ०लो० | विस्तरतस्तु क्षपक श्रेणिस्वरूपं स्वोपज्ञशतकटीकायां निरूपितं तत एव परिभावनीयम् । तदेवमन्येष्वपि गुणस्थानेषु क्षीणकषायव्यपदेशः सम्भवति, क्वापि कियतामपि कषायाणां क्षीणत्वात्, अतस्तद्व्यवच्छेदार्थं वीतरागग्रहणम् । क्षीणकषायवीतरागत्वं च केवलिनोऽप्यस्ति इति तद्व्यवच्छेदार्थं छद्मस्थग्रहणम् । छद्मस्थग्रहणे च कृते सरागव्यवच्छेदार्थं वीतरागग्रहणम् । वीतरागश्चासौ छद्मस्थश्च वीतरागच्छद्मस्थः । स चोपशान्तकषायोऽप्यस्ति इति तद्व्यवच्छेदार्थं क्षीणकषायग्रहणम् । क्षीणकषायश्चासौ वीतरागच्छद्मस्थश्च क्षीणकषायवीतरागच्छद्मस्थः, तस्य गुणस्थानं क्षीणकषायवीतरागच्छद्मस्थगुणस्थानम् १२ इति । तथा योगो वीर्यं शक्तिः उत्साहः पराक्रम इति पर्यायाः, स च मनोवाक्कायलक्षणकरणभेदात् तिस्रः सञ्ज्ञा लभते, मनोयोगो वाग्योगः काययोगश्चेति । तथा चोक्तं कर्म प्रकृतौ - 'परिणामालंबणगहणकारणं तेन लद्धनामतिगं । कज्जब्भासान्नुन्नप्पवेसविसमीकयपएसं ॥४॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy