________________
चतुर्दश गुणस्थानानि
६९७ तावत् प्रतिपतति यावत् प्रमत्तगुणस्थानम् । कश्चित्तु ततोऽप्यधस्तनं गुणस्थानकद्विकं याति, कोऽपि सासादनभावमपि । यः पुनर्भवक्षयेण प्रतिपतति स प्रथमसमय एव सर्वाण्यपि बन्धनादीनि करणानि प्रवर्तयतीति विशेषः । उत्कर्षतश्चैकस्मिन् भवे द्वौ वारावुपशमश्रेणि प्रतिपद्यते । यश्च द्वौ वारावुपशमश्रेणिं प्रतिपद्यते तस्य नियमात् तस्मिन् भवे क्षपकश्रेण्यभावः । यः पुनरेकं वारं प्रतिपद्यते तस्य क्षपकश्रेणिर्भवेदपीति । उक्तं च सप्ततिकाचूर्णी -
_ 'जो दुवे वारे उवसमसेढिं पडिवज्जइ तस्स नियमा तम्मि भवे खवगसेढी नत्थि, जो इक्कसि उवसमसेढी पडिवज्जइ तस्स खवगसेढी वि हुज्ज त्ति ॥' ।
(छाया- यो द्वौ वारौ उपशमश्रेणि प्रतिपद्यते तस्य नियमात्तस्मिन् भवे क्षपकश्रेणि स्ति, य एकवारं उपशमश्रेणि प्रतिपद्यते तस्य क्षपकश्रेणिरपि भवेदिति ॥)
एष कार्मग्रन्थिकाभिप्रायः । आगमाभिप्रायेण त्वेकस्मिन् भव एकामेव श्रेणि प्रतिपद्यते, यदुक्तं कल्पभाष्ये -
‘एवं अप्परिवडिए, सम्मत्ते देवमणुयजम्मेसु ।
अन्नयरसेढिवज्ज, एगभवेणं च सव्वाइं ॥ १०७॥ (छाया- एवमप्रतिपतिते सम्यक्त्वे देवमनुजजन्मसु ।
अन्यतरश्रेणिवर्जम् एकभवेन च सर्वाणि ॥१०७॥) सर्वाणि देशविरत्यादीनि । अन्यत्राप्युक्तम् -
'मोहोपशम एकस्मिन्, भवे द्विः स्यादसन्ततम् ।
यस्मिन् भवे तूपशमः, क्षयो मोहस्य तत्र न ॥' इति । ११ । तथा क्षीणा:-अभावमापन्ना कषाया यस्य स क्षीणकषायः । तत्रानन्तानुबन्धिकषायान् प्रथममविरतसम्यग्दृष्ट्याद्यप्रमत्तान्तेषु गुणस्थानेषु क्षपयितुमारभते, ततो मिथ्यात्वं मिश्रं सम्यक्त्वम्, ततोऽप्रत्याख्यानावरणान् प्रत्याख्यानावरणान् कषायानष्टौ क्षपयितुमारभते, तेषु चार्धक्षपितेष्वेवातिविशुद्धिवशादन्तराल एव स्त्यानद्धित्रिकं नरकद्विकं तिर्यग्द्विकम् एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातयः आतपम् उद्योतं स्थावरं सूक्ष्मं साधारणमिति प्रकृतिषोडशकं क्षपयति । तस्मिश्च क्षीणे कषायाष्टकस्य क्षपितशेष क्षपयति । ततो नुपंसकवेदं स्त्रीवेदं हास्यादिषट्कं पुंवेदं सज्वलनं क्रोधं मानं मायां क्षपयति, एताश्च प्रकृतीरनिवृत्तिबादरसम्परायगुणस्थाने क्षपयति, सञ्चलनलोभं सूक्ष्मसम्परायगुणस्थान इति क्षपक श्रेणिः । स्थापना चेयम् -