SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ६९६ हस्य रति सं०लो० अप्र० लो० प्र०लो० सं० माया Moda अप्र० माया प्र०माया सं०मा० अप्र०मा० प्र०मा० सं०क्रो० अप्र०क्रो० प्र०क्रो० पु०वे० अरति शोक भय जुगु० चतुर्दश गुणस्थानानि स्त्रीवे० न०वे० मि० मो० मिश्रमो० स० मो० अ०क्रो० अ०मा० अ०माया अ० लो० विस्तरतस्तूपशमश्रेणिः स्वोपज्ञशतकटीकायां व्याख्याता ततः परिभावनीया । तदेवमन्येष्वपि गुणस्थानकेषु क्वापि कियतामपि कषायाणामुपशान्तत्वसम्भवाद् उपशान्तकषायव्यपदेशः सम्भवति, अतस्तद्व्यवच्छेदार्थं वीतरागग्रहणम् । उपशान्तकषायवीतराग इत्येतावताऽपीष्टसिद्धौ छद्मस्थग्रहणं स्वरूपकथनार्थं, व्यवच्छेद्याभावात्, न ह्यच्छद्मस्थ उपशान्कषायवीतरागः सम्भवति यस्य च्छद्मस्थग्रहणेन व्यवच्छेदः स्यादिति । अस्मिंश्च गुणस्थानेऽष्टाविंशतिरपि मोहनीयप्रकृतय उपशान्ता ज्ञातव्याः । उपशान्तकषायश्च जघन्येनैकं समयं भवति, उत्कर्षेण त्वन्तर्मुहूर्तं कालं यावत्, तत ऊर्ध्वं नियमादसौ प्रतिपतति । प्रतिपातश्च द्वेधा - भवक्षयेणाऽद्धाक्षयेण च । तत्र भवक्षयो म्रियमाणस्य, अद्धाक्षय उपशान्ताद्धायां समाप्तायाम् । अद्धाक्षयेण च प्रतिपतन् यथैवारूढस्तथैव प्रतिपतति, यत्र यत्र बन्धोदयोदीरणा व्यवच्छिन्नास्तत्र तत्र प्रतिपतता सता ते आरभ्यन्ते इति यावत् । प्रतिपतंश्च
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy