SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ६९२ चतुर्दश गुणस्थानानि ऽविरतः, स चासौ सम्यग्दृष्टिश्चाविरतसम्यग्दृष्टिः । इदमुक्तं भवति - यः पूर्ववर्णितौपशमिकसम्यग्दृष्टिः शुद्धदर्शनमोहपुञ्जोदयवर्ती क्षायोपशमिकसम्यग्दृष्टिर्वा क्षीणदर्शनसप्तकः क्षायिकसम्यग्दृष्टिर्वा परममुनिप्रणीतां सावद्ययोगविरतिं सिद्धिसौधाध्यारोहणनिःश्रेणिकल्पां जानन् अप्रत्याख्यानकषायोदयविघ्नितत्वात् नाभ्युपगच्छति, न च तत्पालनाय यतत इत्यसावविरतसम्यग्दृष्टिरुच्यते, तस्य गुणस्थानमविरतसम्यग्दृष्टिगुणस्थानम् । उक्तं च - 'बंधं अविहेडं, जाणतो रागदोसदुक्खं च । विरइसुहं इच्छंतो, विरई काउंच असमत्थो ॥ एस असंजयसम्मो, निंदतो पावकम्मकरणं च । अहिगयजीवाजीवो, अचलियदिट्ठी चलियमोहो ॥ ४॥ बन्धमविरतिहेतुं, जानानो रागद्वेषदुःखं च । विरतिसुखमिच्छन्, विरतिं कर्तुं चासमर्थः ॥ एषोऽसंयतसम्यग्दृष्टिः, निन्दन् पापकर्मकरणं च । अधिगतजीवाजीवो-ऽचलितदृष्टिश्चलितमोहः ॥) तथा सर्वसावधयोगस्य देशे - एकव्रतविषये स्थूलसावधयोगादौ सर्वव्रतविषयानुमतिवर्जसावद्ययोगान्ते विरतं विरतिर्यस्यासौ देशविरतः । सर्वसावधविरतिः पुनरस्य नास्ति, प्रत्याख्यानावरणकषायोदयात्, सर्वविरतिरूपं प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणाः । उक्तं च - 'सम्मइंसणसहिओ, गिण्हतो विरमप्पसत्तीए । एगव्वयाइचरिमो, अणुमइमित्त त्ति देसजई ॥' (छाया- सम्यग्दर्शनसहितः, गृह्णन् विरतिमात्मशक्त्या । एकव्रतादिचरमः, अनुमतिमात्रमिति देशयतिः ॥). देशविरतस्य गुणस्थानं देशविरतगुणस्थानम् ५ । तथा संयच्छति स्म-सम्यग् उपरमति स्म संयतः, 'गत्यर्थाऽकर्म०'(५-१-११) इति क्तः, प्रमाद्यति स्म-संयमयोगेषु सीदति स्म, प्राग्वत् कर्तरि क्तः प्रमत्तः, यद्वा प्रमदनं प्रमत्तंप्रमादः, स च मदिराविषयकषायनिद्राविकथानामन्यतमः सर्वे वा । प्रमत्तमस्यास्तीति प्रमत्तःप्रमादवान् 'अभ्रादिभ्यः' (सि० ७-२-४६) इति अप्रत्ययः, प्रमत्तश्चासौ संयतश्च प्रमत्तसंयतः, तस्य गुणस्थानं प्रमत्तसंयतगुणस्थानम्, विशुद्ध्यविशुद्धिप्रकर्षाऽपकर्षकृतः
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy