________________
चतुर्दश गुणस्थानानि
(छाया - ऊषरदेशं दग्धं च, विध्यायति वनदवः प्राप्य ।
इति मिथ्यात्वस्यानुदये, उपशमसम्यक्त्वं लभते जीवः || २७३४||
तस्यां चान्तर्मौहूर्तिक्यामुपशान्ताद्धायां परमनिधिलाभकल्पायां जघन्यतः समयशेषायामुत्कृष्टतः षडावलिकाशेषायां सत्यां कस्यचिन्महाबिभीषिकोत्थानकल्पोऽनन्तानुबन्ध्युदयो भवति, तदुदये चासौ सास्वादनसम्यग्दृष्टिगुणस्थाने वर्तते, उपशमश्रेणिप्रतिपतितो वा कश्चित् सासादनत्वं याति, तदुत्तरकालं चावश्यं मिथ्यात्वोदयादसौ मिथ्यादृष्टिर्भवतीति २ ।
तथा सम्यक् च मिथ्या च दृष्टिर्यस्यासौ सम्यग्मिथ्यादृष्टिः, तस्य गुणस्थानं सम्यग् - मिथ्यादृष्टिगुणस्थानम् । इहानन्तराभिहितविधिना लब्धेनौपशमिकसम्यक्त्वेन औषधविशेषकल्पेन मदनकोद्रवस्थानीयं मिथ्यात्वमोहनीयं कर्म शोधयित्वा त्रिधा करोति । तद्यथा शुद्धमर्धविशुद्धमविशुद्धं चेति । स्थापना/ । तत्र त्रयाणां पुञ्जानां मध्ये यदाऽर्धविशुद्धः पुञ्ज उदेति तदा तदुदयाद् जीवस्यार्धविशुद्धं जिनप्रणीततत्त्वश्रद्धानं भवति, तेन तदाऽसौ सम्यग्मिथ्यादृष्टिगुणस्थानमन्तर्मुहूर्तं कालं स्पृशति, तत ऊर्ध्वमवश्यं सम्यक्त्वं मिथ्यात्वं वा गच्छतीति ३ ।
न
न
न
न
जा
जा
जा
जा
तथा विरतिर्विरतं क्लीबे क्तप्रत्ययः, तत्पुनः सावद्ययोगप्रत्याख्यानं, तद् न जानाति नाभ्युपगच्छति न तत्पालनाय यतत इति त्रयाणां पदानामष्टौ भङ्गाः । स्थापना
ना
ना
S
S
ना
ना
S
S
न
पा
६९१
न
पा
न
पा
न
पा
-
-
तत्र प्रथमेषु चतुर्षु भङ्गेषु मिथ्यादृष्टिरज्ञानित्वात्, शेषेषु सम्यग्दृष्टिर्ज्ञानित्वात्, सप्तसु भङ्गेषु नास्य विरतमस्तीत्यविरतः, 'अभ्रादिभ्यः' (सि० ७ - २- ४६ ) इति अप्रत्ययः, चरमभङ्गे तु विरतिरस्तीति । यद्वा विरमति स्म - सावद्ययोगेभ्यो निवर्तते स्मेति विरतः, 'गत्यर्थाऽकर्मकपिबभुजे : ' ( सि० ५-१-११ ) इति कर्तरि क्तप्रत्यये विरतः, न विरतो