________________
६९०
चतुर्दश गुणस्थानानि ग्रन्थिरिति सुदुर्भेदः, कर्कशघनरूढग्रन्थिरिव ।
जीवस्य कर्मजनितो, घनरागद्वेषपरिणामः ॥) इमं च ग्रन्थि यावदभव्या अपि यथाप्रवृत्तिकरणेन कर्म क्षपयित्वाऽनन्तशः समागच्छन्ति । उक्तं चाऽऽवश्यकटीकायाम् -
अभव्यस्यापि कस्यचिद् यथाप्रवृत्तिकरणतो ग्रन्थिमासाद्याऽहंदादिविभूतिदर्शनतः प्रयोजनान्तरतो वा प्रवर्तमानस्य श्रुतसामायिकलाभो भवति न शेषलाभ इति ।
एतदनन्तरं कश्चिदेव महात्माऽऽसन्नपरमनिर्वृतिसुखः समुल्लसितप्रचुरदुनिवारवीर्यप्रसरो निशितकुठारधारयेव परमविशुद्ध्या यथोक्तस्वरूपस्य ग्रन्थेर्भेदं विधाय मिथ्यात्वस्थितेरन्तर्मुहूर्तमुदयक्षणाद् उपर्यतिक्रम्याऽपूर्वकरणाऽनिवृत्तिकरणलक्षणविशुद्धिजनितसामर्थ्याद् अन्तर्मुहूर्तकालप्रमाणं तत्प्रदेशवेद्यदलिकाभावरूपमन्तरकरणं करोति । अत्र यथाप्रवृत्तिकरणाऽपूर्वकरणाऽनिवृत्तिकरणानामयं क्रमः -
जा गंठी ता पढम, गंठि समइच्छओ भवे बीयं । अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ॥ (विशे० भा० गा० १२०३) (छाया- यावद् ग्रन्थिः तावत् प्रथम, ग्रन्थि समतिक्रामतो भवेद्वितीयम् ।
अनिवृत्तिकरणं पुनः, सम्यक्त्वपुरस्कृते जीवे ॥) 'गंठिं समइच्छओ' त्ति ग्रन्थि समतिक्रामत:-भिन्दानस्येति, "सम्मत्तपुरक्खड" त्ति सम्यक्त्वं पुरस्कृतं येन तस्मिन् आसन्नसम्यक्त्वे जीवेऽनिवृत्तिकरणं भवतीत्यर्थः ।
एतस्मिंश्चान्तरकरणे कृते सति तस्य मिथ्यात्वकर्मणः स्थितिद्वयं भवति । अन्तरकरणादधस्तनी प्रथमा स्थितिरन्तर्मुहूर्तप्रमाणा, तस्मादेवान्तरकरणाद् उपरितनी शेषा द्वितीया । स्थापना -। तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव, अन्तर्मुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकसम्यक्त्वमाप्नोति, मिथ्यात्वदलिकवेदनाऽभावात् । यथा हि वनदावानलः पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यायति, तथा मिथ्यात्ववेदनवनदवोऽप्यन्तरकरणमवाप्य विध्यायति । तथा च सति तस्यौपशमिकसम्यक्त्वलाभः । उक्तं च -
'ऊसरदेसं दडिलयं च, विज्झाइ वणदवो पप्प । इय मिच्छस्स अणुदए, उवसमसम्म लहइ जीवो ॥२७३४॥' (विशेषा०)