________________
चतुर्दश गुणस्थानानि
६९३ स्वरूपभेदः । तथाहि - देशविरतिगुणापेक्षया एतद्गुणानां विशुद्धिप्रकर्षोऽविशुद्ध्यपकर्षश्च, अप्रमत्तसंयतापेक्षया तु विपर्ययः । एवमन्येष्वपि गुणस्थानेषु पूर्वोत्तरापेक्षया विशुद्ध्यविशुद्धिप्रकर्षाऽपकर्षयोजना द्रष्टव्या ६ । ___ न प्रमत्तोऽप्रमत्तः । यद्वा नास्ति प्रमत्तमस्यासावप्रमत्तः, स चासौ संयतश्च, तस्य गुणस्थानम् अप्रमत्तसंयतगुणस्थानम् ७ ।
अपूर्वम्- अभिनवं प्रथममित्यर्थः करणं-स्थितिघातरसघातगुणश्रेणिगुणसङ्क्रमस्थितिबन्धानां पञ्चानामर्थानां निवर्तनं यस्यासावपूर्वकरणः । तथाहि - बृहत्प्रमाणाया ज्ञानावरणीयादिकर्मस्थितेरपवर्तनाकरणेन खण्डनम्-अल्पीकरणं स्थितिघात उच्यते। रसस्यापि प्रचुरीभूतस्य सतोऽपवर्तनाकरणेन खण्डनम् - अल्पीकरणं रसघात उच्यते। एतौ द्वावपि पूर्वगुणस्थानेषु विशुद्धेरल्पत्वादल्पावेव कृतवान्, अत्र पुनर्विशुद्धेः प्रकृष्टत्वात् बृहत्प्रमाणतया अपूर्वाविमौ करोति । तथा उपरितनस्थितेविशुद्धिवशादपवर्तनाकरणेनाऽवतारितस्य दलिकस्यान्तर्मुहूर्तप्रमाणमुदयक्षणादुपरि क्षिप्रतरक्षपणाय प्रतिक्षणमसङ्ख्येयगुणवृद्ध्या विरचनं गुणश्रेणिः । स्थापना ill । एतां च । पूर्वगुणस्थानेष्वविशुद्धत्वात् कालतो द्राधीयसी दलिकरचनामाश्रित्याऽप्रथीयसीमल्पदलिकस्यापवर्तनाद् विरचितवान् इह तु तामेव विशुद्धत्वादपूर्वां कालतो हुस्वतरां दलिकरचनामाश्रित्य पुनः पृथुतरां बहुतरदलिकस्यापवर्तनाद् विरचयति । तथा बध्यमानशुभप्रकृतिष्वबध्यमानाशुभप्रकृतिदलिकस्य प्रतिक्षणमसङ्ख्येयगुणवृद्ध्या विशुद्धिवशाद् नयनं गुणसङ्क्रमः, तमप्यसाविहापूर्वं करोति । तथा स्थिति कर्मणामशुद्धत्वात् प्राग् द्राधीयसीं बद्धवान्, इह तु तामपूर्वां विशुद्धत्वादेव इसीयसीं बनातीति [स्थितिबन्धः] ।
अयं चापूर्वकरणो द्विधा - क्षपक उपशमकश्च, क्षपणोपशमनार्हत्वात् चैवमुच्यते, राज्यार्हकुमारराजवत्, न पुनरसौ क्षपयत्युपशमयति वा, तस्य गुणस्थानम् अपूर्वकरणगुणस्थानम् ।
एतच्च गुणस्थानं प्रपन्नानां कालत्रयवर्तिनो नानाजीवानपेक्ष्य सामान्यतोऽसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति । कथं पुनस्तानि भवन्ति ? इति विनेयजनानुग्रहार्थं विशेषतोऽपि प्ररूप्यन्ते - इह तावदिदं गुणस्थानकमन्तर्मुहूर्तकालप्रमाणं भवति । तत्र च प्रथमसमयेऽपि ये प्रपन्नाः प्रपद्यन्ते प्रपत्स्यन्ते च तदपेक्षया जघन्यादीन्युत्कृष्टान्तान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि लभ्यन्ते, प्रतिपत्तृणां बहुत्वादध्यवसायानां च विचित्रत्वादिति भावनीयम् ।