SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ६८७ चतुर्दश गुणस्थानानि थूलाण लोहखंडाण, वेयगो बायरो मुणेयव्वो। सुहुमाण होइ सुहुमो, उवसंतेहिं तु उवसंतो ॥९॥ खीणम्मि मोहणिज्जे, खीणकसाओ सजोग जोगि त्ति (ग त्ति)। होइ पउत्ता य तओ, अपउत्ता होइ हु अजोगी ॥१०॥' (छाया- जीवादिपदार्थेषु, जिनोपदिष्टेषु याऽ श्रद्धा । श्रद्धाऽपि च मिथ्या, विपरीतप्ररूपणा या च ॥१॥ संशयकरणं यदपि च, यस्तेष्वनादरः पदार्थेषु । तत्पञ्चविधं मिथ्यात्वं, तदृष्टिः मिथ्यादृष्टिश्च ॥२॥ उपशमाध्वनि स्थितो, मिथ्यात्वमप्राप्तस्तमेव गन्तुमनाः । सम्यक्त्वं आस्वादयन्, सास्वादनो ज्ञातव्यः ॥३॥ यथा गुडदधिनी विषमादि-भावसहिते भवतो मिश्रे । भुञ्जानस्य तथोभय-दृष्ट्या मिश्रदृष्टिकः ॥४॥ त्रिविधेऽपि हि सम्यक्त्वे, स्तोकाऽपि न विरतिः यस्य कर्मवशात् । सोऽविरत इति भण्यते, देशे पुनर्देशविरतिकः ॥५॥ विकथाकषायनिद्रा-शब्दादिरतो भवेत् प्रमत्त इति । पञ्चसमितस्त्रिगुप्तो-ऽप्रमत्तयतिख़तव्यः ॥६॥ अपूर्वमपूर्वं, यथोत्तरं यः करोति स्थितिखण्डं । रसखण्डम् तद्घातं, स भवत्यपूर्वकरण इति ॥७॥ विनिवर्तन्ते विशुद्धिं, समकप्रविष्टा अपि यस्मिन्नन्योन्यम् । ततो निवृत्तिस्थानं, विपरीतमतोऽप्यनिवृत्ति ॥८॥ स्थूलानां लोभखण्डानां, वेदको बादरो ज्ञातव्यः । सूक्ष्माणां भवति सूक्ष्म, उपशान्तैः तु उपशान्तः ॥९॥ क्षीणे मोहनीये, क्षीणकषायः सयोगः योगीति । भवति प्रयोक्ता च सकः, अप्रयोक्ता भवति खल्वयोगी ॥१०॥) चतुर्दशगुणस्थानानां विस्तृतं स्वरूपं द्वितीयकर्मग्रन्थवृत्त्या ज्ञेयम् । तच्चेदम् -
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy