________________
६८८
चतुर्दश गुणस्थानानि 'तत्र गुणाः-ज्ञानदर्शनचारित्ररूपा जीवस्वभावविशेषाः, स्थानम्-पुनरत्र तेषां शुद्ध्यविशुद्धिप्रकर्षापकर्षकृतः स्वरूपभेदः, तिष्ठन्त्यस्मिन् गुणा इति कृत्वा, गुणानां स्थानं गुणस्थानम्, मिथ्या-विपर्यस्ता दृष्टिः-अर्हत्प्रणीतजीवाजीवादिवस्तुप्रतिपत्तिर्यस्य भक्षितहृत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत् स मिथ्यादृष्टिः, तस्य गुणस्थानं-ज्ञानादिगुणानामविशुद्धिप्रकर्षविशुद्ध्यपकर्षकृतः स्वरूपविशेषो मिथ्यादृष्टिगुणस्थानम् । ननु यदि मिथ्यादृष्टिः ततः कथं तस्य गुणस्थानसम्भवः ? गुणा हि ज्ञानादिरूपाः, तत् कथं ते दृष्टौ विपर्यस्तायां भवेयुः? इति, उच्यते - इह यद्यपि सर्वथाऽतिप्रबलमिथ्यात्वमोहनीयोदयाद् अर्हत्प्रणीतजीवाजीवादिवस्तुप्रतिपत्तिरूपा दृष्टिरसुमतो विपर्यस्ता भवति तथापि काचिद् मनुष्यपश्वादिप्रतिपत्तिरविपर्यस्ता, ततो निगोदावस्थायामपि तथाभूताऽव्यक्तस्पर्शमात्रप्रतिपत्तिरविपर्यस्ताऽपि भवति, अन्यथाऽजीवत्वप्रसङ्गात् । यदागमः -
'सव्वजीवाणं पि य णं अक्खरस्स अणंतभागो निच्चुग्घाडिओ चिट्ठइ, जइ पुण सो वि आवरिज्जिज्जा ता णं जीवो अजीवत्तणं पाविज्जा ।' (नन्दीपत्र १९५-२) इति ।
(छाया- सर्वजीवानामपि च अक्षरस्यानन्तभागो नित्योद्घाटितस्तिष्ठति, यदि पुनः सोऽपि आवियेत ततो जीवोऽजीवत्वं प्राप्नुयात् ।)
तथाहि - समुन्नताऽतिबहलजीमूतपटलेन दिनकररजनिकरकरनिकरतिरस्कारेऽपि नैकान्तेन तत्प्रभानाशः सम्पद्यते, प्रतिप्राणिप्रसिद्धदिनरजनिविभागाऽभावप्रसङ्गात् । उक्तं च -
'सुटु वि मेहसमुदए, होइ पहा चंदसूराणं ।' (नन्दीपत्र० १९५-२) इति । (छाया- सुष्ठ्वपि मेघसमुदये भवति प्रभा चन्दसूर्ययोः ।)
एवमिहापि प्रबलमिथ्यात्वोदयेऽपि काचिदविपर्यस्ताऽपि दृष्टिर्भवतीति तदपेक्षया मिथ्यादृष्टेरपि गुणस्थानसम्भवः ।
यद्येवं ततः कथमसौ मिथ्यादृष्टिरेव ? मनुष्यपश्वादिप्रतिपत्त्यपेक्षया अन्ततो निगोदावस्थायामपि तथाभूताऽव्यक्तस्पर्शमात्रप्रतिपत्त्यपेक्षया वा सम्यग्दृष्टित्वादपि, नैष दोषः, यतो भगवदर्हत्प्रणीतं सकलमपि द्वादशाङ्गार्थमभिरोचयमानोऽपि यदि तद्गदितमेकमप्यक्षरं न रोचयति तदानीमप्येष मिथ्यादृष्टिरेवोच्यते, तस्य भगवति सर्वज्ञे प्रत्ययनाशात् । तदुक्तम् -
'पयमक्खरं पि इक्कं, पि जो न रोयए सत्तनिविद्रं । सेसं रोयंतो वि हु, मिच्छट्टिी जमालि व्व ॥' (बृहत्सं० गा० १६७) इति ।