________________
द्वादश भावनाः
६६४ समुच्चयो गम्यते, इति चकारो नोक्तः, यथा -
'अहरहर्नयमानो गामश्वं पुरुष पशुम् ।
वैवस्वतो न तृप्यति सुराया इव दुर्मदी ॥१॥' ॥८६॥ उभयीमपि निर्जरां व्याचष्टे -
ज्ञेया सकामा यमिना-मकामा त्वन्यदेहिनाम् ।
कर्मणां फलवत् पाको, यदुपायात् स्वतोऽपि हि ॥८७॥ वृत्तिः - सकामा निर्जराऽभिलाषवती यमिनां यतीनां विज्ञेया । ते हि कर्मक्षयार्थं तपस्तप्यन्ते । अकामा तु कर्मक्षयलक्षणफलनिरपेक्षा निर्जराऽन्यदेहिनां यतिव्यतिरिक्तानामेकेन्द्रियादीनां प्राणिनाम्, तथाहि - एकेन्द्रियाः पृथिव्यादयो वनस्पतिपर्यन्ताः शीतोष्णवर्षाजलाग्निशस्त्राद्यभिघातच्छेदभेदादिनाऽसद्वेद्यं कर्मानुभूय नीरसं कर्म स्वदेशेभ्यः परिशाटयन्ति । विकलेन्द्रियाश्च क्षुत्पिपासाशीतोष्णादिभिः, पञ्चेन्द्रियतिर्यञ्चश्च छेदभेददाहशस्त्रादिभिः, नारकाश्च त्रिविधया वेदनया, मनुष्याश्च क्षुत् - पिपासा - व्याधिदारिद्र्यादिना, देवाश्च पराभियोगकिल्बिषत्वादिना कर्मानुभूय स्वप्रदेशेभ्यः परिशाटयन्ति । इत्येषामकामा निर्जरा । ननु सकामत्वाकामत्वस्वरूपेण निर्जराया द्वैविध्यं कुत्र दृष्टम् ? इति प्रश्ने स्पष्टं दृष्टान्तमाह-कर्मणामसद्वेद्यादीनां फलवत् फलानामिव यद् यस्मात् पाक उपायाद् निवातप्रदेशपलालाच्छादनादिरूपात् स्वतोऽपि वा वृक्षस्थानामेव । तदेवं यथा फलानां पाकस्य स्वत उपायतश्च द्वैविध्यं दृश्यते तद्वत् कर्मणामपि, इत्युक्तम् - सकामा कामवर्जिता च निर्जरा इति । ननु फलपाकस्य द्वैविध्ये कर्मणां पाकस्य किमायातम् ? नैवम्, पाकस्य निर्जरारूपत्वात् । ततो यथा फलपाको द्वेधा भवति तथा कर्मनिर्जरापि ॥८७॥ अथ धर्मस्वाख्यातभावना -
स्वाख्यातः खलु धर्मोऽयं, भगवद्भिर्जिनोत्तमैः ।
यं समालम्बमानो हि, न मज्जेद् भवसागरे ॥१२॥ वृत्तिः - सुष्ठ कुतीथिकापेक्षया प्राधान्येन, आ विधिप्रतिषेधमर्यादया ख्यातः कथितः खलु निश्चयेन धर्मो वक्ष्यमाणलक्षणः, अयं विपश्चितां चेतसि विवर्तमानः । कैः ? जिनोत्तमैरवधिजिनादिभ्यः प्रकृष्टैः केवलिभिः । कथम्भूतैः भगवद्भिर्व्याख्यातस्वरूपैरर्हद्भिरिति यावत् । स्वाख्याततामेवाह-यं धर्मं समालम्बमानो दुर्गतिपातभयादाश्रयन्, जन्तुरिति गम्यते । न मज्जेद् ब्रुडेद् भवसमुद्रे ॥१२॥