________________
६६५
द्वादश भावनाः अथ लोकभावनामाह -
कटिस्थकरवैशाख-स्थानकस्थनराकृतिम् ।
द्रव्यैः पूर्ण स्मरेल्लोकं, स्थित्युत्पत्तिव्ययात्मकैः ॥१०३॥ वृत्तिः - कटिः श्रोणिस्तत्र तिष्ठत इति कटिस्थौ करौ यस्यासौ कटिस्थकरः, वैशाखं प्रसारितपादं तच्च तत् स्थानकं च तत्र तिष्ठति तत्स्थः , स चासौ नरश्च, तद्वदाकृतिर्यस्य तं लोकमाकाशक्षेत्रं चतुर्दशरज्जूंप्रमाणं स्मरेदनुप्रेक्षेत । किंविशिष्टम् ? द्रव्यैर्धर्माधर्मकालजीवपुद्गलैः पूर्णम्, किंविशिष्टैर्द्रव्यैः ? स्थित्युत्पत्तिव्ययात्मकैः स्थितिध्रौव्यम्, उत्पत्तिरुत्पादः, व्ययो विनाशस्ते आत्मानः स्वरूपं येषां तानि तथा । सर्वमपि हि वस्तु स्थित्युत्पादव्ययात्मकम् यदाहुः, - 'उत्पादव्ययध्रौव्ययुक्तं सत् ।' आकाशादयोऽपि हि नित्यानित्यत्वेन प्रसिद्धाः प्रतिक्षणं तेन तेन पर्यायेणोत्पद्यन्ते च विपद्यन्ते च । प्रदीपादयोऽप्युत्पादविनाशयोगिनोऽवतिष्ठन्ते, न पुनरैकान्तिकस्थितियोगि उत्पादविनाशयोगि वा किञ्चिदस्ति, यदवोचामः -
'आदीपमाव्योमसमस्वभावं, स्याद्वादमुद्रानतिभेदि वस्तु ।
तन्नित्यमेवैकमनित्यमन्य-दिति त्वदाज्ञाद्विषतां प्रलापाः ॥१॥' इति ॥१०३॥ अथ बोधिदुर्लभत्वभावनां श्लोकत्रयेणाह -
प्राप्तेषु पुण्यतः श्रद्धा-कथकश्रवणेष्वपि ।
तत्त्वनिश्चयरूपं तद्-बोधिरत्नं सुदुर्लभम् ॥१०९॥ वृत्तिः - पुण्यतः कर्मलाघवलक्षणात् शुभकर्मोदयलक्षणाच्च प्राप्तेष्वासादितेषु । केषु ? इत्याह - श्रद्धा धर्माभिलाषः कथको धर्मोपदेष्टा गुरुः, श्रवणं तद्वचनाकर्णनं, एतेषु सत्स्वपि । तदिति प्रसिद्धं, बोधिरत्नं सुदुर्लभं, बोधिस्तु तत्त्वनिश्चयः तत्त्वस्य देवगुरुधर्मरूपस्य निश्चयो दृढोऽभिनिवेशः, तदेव रूपं यस्य तत् तत्त्वनिश्चयरूपम् । स्थावरत्वात्रसत्वादीन्यपि दुर्लभानि, तेभ्योऽपि बोधिरत्नं दुर्लभमिति सुशब्देनाह । यतो मिथ्यादृशोऽपि त्रसत्वादीनि श्रवणान्तान्यनन्तशः प्राप्नुवन्ति, बोधिरत्नं तु न लभन्ते, तच्चाविघ्नं मोक्षतरुबीजमिति ॥१०९॥'
गुरुनित्यमेता द्वादश भावना भावयति । ततश्च स सर्वत्र निर्ममो भवति । इत्येवं षट्त्रिंशद्गुणकुसुमोपवनो गुरुर्जीवानां मिथ्यात्वदुर्गन्धमपाकरोतु ॥१७॥
इति षोडशी षट्विशिका समाप्ता ।