________________
द्वादश भावना:
अथ संवरभावनामाह
सर्वेषामाश्रवाणां तु, निरोधः संवरः स्मृतः । स पुनर्भिद्यते द्वेधा, द्रव्यभावविभेदतः ॥७९॥
वृत्तिः - सर्वेषां पूर्वोक्तानामाश्रवाणां निरुध्यन्तेऽनेनेति निरोधः संवर उक्तः संव्रियतेऽनेनेति कृत्वा स चायोगिकेवलिनामेव । इदं च सर्वसंवरस्य स्वरूपम् । एकद्वित्र्याद्यास्रवनिरोधस्तु सामर्थ्याद् देशसंवरः । स चायोगिकेवलिनः प्राग्गुणस्थानकेषु । सर्वसंवरो देशसंवरश्च प्रत्येकं द्रव्यभावभेदेन द्विविधः ॥७९॥
द्वैविध्यमेवाह
यः कर्मपुद्गलादान -च्छेदः स द्रव्यसंवरः । भवहेतुक्रियात्यागः, स पुनर्भावसंवरः ॥८०॥
६६३
वृत्ति: - कर्मपुद्गलानामाश्रवद्वारेणादानं प्रवेशनं तस्य यच्छिद्यतेऽनेनेति च्छेदः स द्रव्याणां संवरो द्रव्यसंवरः । भावसंवरस्तु संसारकारणभूतायाः क्रियाया आत्मव्यापाररूपायास्त्याग इति ॥८०॥
अथ निर्जराभावनामाह -
संसारबीजभूतानां कर्मणां जरणादिह ।
7
निर्जरा सा स्मृता द्वेधा, सकामा कामवर्जिता ॥ ८६ ॥
वृत्तिः - जन्तूनां चतुर्गतिभ्रमणरूपस्य संसारस्य बीजभूतानां कारणभूतानां कर्मणां जरणादात्मप्रदेशेभ्योऽनुभूतरसकर्मपुद्गलपरिशाटनादिह प्रवचने निर्जरोच्यते । सा निर्जरा द्वेधा - सह कामेन 'निर्जरा मे भूयात्' इत्यभिलाषेण युक्ता सकामा, न पुनरिहलोक - परलोकफलादिकामेन युक्ता, तस्य प्रतिषिद्धत्वात्, यदाहुः
'नो इहलोगट्टयाए तवमहिट्टिज्जा, नो परलोगट्टयाए तवमहिट्टिज्जा, नो कित्तिवण्णसद्दसिलोगट्टयाए तवमहिट्टिज्जा नण्णत्थ निज्जरट्टयाए तवमहिट्ठिज्जा ।' (दशवै०
९/४)
(छाया - नो इहलोकार्थं तपोऽधितिष्ठेत्, नो परलोकार्थं तपोऽधितिष्ठेत्, नो कीर्तिवर्णशब्दश्लोकार्थं तपोऽधितिष्ठेत्, नान्यत्र निर्जरार्थात् तपोऽधितिष्ठेत् ।)
इत्येका निर्जरा । द्वितीया तु कामवर्जिता कामेन पूर्वोक्तेन वर्जिता । अत्र चकारमन्तरेणापि
I