SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ६६२ रसासृग्मांसमेदोऽस्थि-मज्जाशुक्रान्त्रवर्चसाम् । अशुचीनां पदं कायः, शुचित्वं तस्य तत् कुतः ? ॥७२॥ वृत्तिः - रसो भुक्तपीतान्नपानपरिणामजो निस्यन्दः, असृग् रक्तं रससम्भवो धातुः, मांसं पिशितमसृग्भवम्, मेदो वसा मांससम्भवम्, अस्थि कीकसं मेदसम्भवम्, मज्जा सारोSस्थिसम्भवः शुक्रं रेतो मज्जासम्भवम्, अन्त्रं पुरीतत्, वर्चो विष्टा, एतेषामशुचिद्रव्याणां पदं स्थानं कायः । तत् तस्मात् तस्य कायस्य कथं शुचित्वम् ? न कथञ्चिदित्यर्थः ॥७२॥ अथाश्रवभावनामाह - मनोवाक्कायकर्माणि, योगाः कर्म शुभाशुभम् । यदाश्रवन्ति जन्तूना-माश्रवास्तेन कीर्तिताः ॥७४॥ वृत्ति : - मनश्च वाक् च कायश्च मनोवाक्कायास्तेषां कर्माणि व्यापारा योगशब्दे - नोच्यन्ते, तत्रात्मना शरीरवता सर्वप्रदेशैर्गृहीता मनोयोग्याः पुद्गलाः शुभादिमननार्थं करणभावमालम्बन्ते, तत्सम्बन्धादात्मनः पराक्रमविशेषो मनोयोगः स च पञ्चेन्द्रियाणां समनस्कानां भवति । तथा आत्मना शरीरवता वाग्योग्यपुद्गला गृहीता विसृज्यमाना वाक्त्वेन करणतामापद्यन्ते, तेन वाक्करणेन सम्बन्धादात्मनो भाषणशक्तिर्वाग्योगः । सा च द्वीन्द्रियादीनाम् । कायः शरीरमात्मनो निवासस्तद्योगाज्जीवस्य वीर्यपरिणामः काययोगः । ते चामी त्रयोऽपि मनोवाक्कायसम्बन्धादग्निसम्बन्धादिष्टकादे रक्ततेवात्मनो वीर्यपरिणतिविशेषा योगा इत्युच्यन्ते यदाहुः द्वादश भावना: 'योगो वीरिअं थामो उच्छाह परिक्कमो तहा चेट्ठा । सत्ती सामत्थं चिअ जोगस्स हवंति पज्जाया ॥ ३९६ ॥ ' (पञ्चसङ्ग्रहः ) (छाया - योगो वीर्यं स्थामोत्साहः पराक्रमस्तथा चेष्टा । शक्तिः सामर्थ्यमेव योगस्य भवन्ति पर्यायाः || ३९६ || ) एते च स्थविरस्य दुर्बलस्य वा आलम्बनयष्ट्यादिवज्जीवस्योपग्राहकाः । तत्र मनोयोग्यपुद्गलात्मप्रदेशपरिणामो मनोयोगः, भाषायोग्यपुद्गलात्मप्रदेशपरिणामो वाग्योगः, काययोग्यपुद्गलात्मप्रदेशपरिणामो गमनादिक्रियाहेतुः काययोगः । एते योगाः, यस्मात् शुभं सवेद्यादि, अशुभमसद्वेद्यादि कर्माश्रवन्ति प्रसुवते, तेन कारणेनाश्रवा इति कीर्तिताः, आश्रूयते कर्मैभिरित्याश्रवाः । एतेषां च करणभूतानामपि कर्तृत्वमिहोक्तम्, स्वातन्त्र्यविवक्षणात् । यथा असिश्छिनत्ति इति ॥७४॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy