________________
द्वादश भावना:
६६१
वृत्तिः - संसारो नानायोनिषु सञ्चरणं स एव नाट्यं नटकर्म तत्र नटवत् नर्तकवत् संसारी जन्तुश्चेष्टते विविधां चेष्टां करोतीति । हन्तेत्यामन्त्रणे । केनोल्लेखेन चेष्टते ? श्रोत्रियो वेदपारगः स एव श्वपचो भवति, स्वामी प्रभुः स एव पत्तिर्भवति, ब्रह्मा प्रजापतिः स एव कृमिर्भवति। यथेष्टं च विध्यनुवादौ, तेन श्वपचः श्रोत्रियः पत्तिः स्वामी कृमिर्ब्रह्मा, इत्यपि द्रष्टव्यम् । यथा हि नाट्ये विविधवर्णकादियोगाद् भूमिकान्तरं नटाः प्रतिपद्यन्ते तथैव संसारी विविधकर्मोपाधिः श्रोत्रियादितां प्रतिपद्यते, न पुनरस्य तथाविधं परमार्थतो रूपमस्ति ॥६५॥ अथैकत्वभावनां श्लोकद्वयेनाह -
एक उत्पद्यते जन्तु - रेक एव विपद्यते । कर्माण्यनुभवत्येकः, प्रचितानि भवान्तरे ॥ ६८ ॥
वृत्तिः - एकोऽसहाय उत्पद्यते शरीरसम्बन्धमनुभवति जन्तुः प्राणी, विपद्यते शरीरेण वियुज्यते, कर्माणि ज्ञानावरणीयादीनि भवान्तरे पूर्वजन्मनि प्रचितानि कृतानि अनुभव वेदयते, भवान्तरग्रहणमुपलक्षणम्, इहजन्मकृतानामप्यनुभवात्, यदाहुर्भगवन्तः
'परलोअकडा कम्मा इहलोए वेइज्जंति, इहलोअकडा कम्मा इहलोए वेइज्जति ॥ ' (छाया - परलोककृतानि कर्माणि इहलोके वेद्यन्ते, इहलोककृतानि कर्माणि इहलोके वेद्यन्ते ॥)
अथान्यत्वभावनामाह
-
यत्रान्यत्वं शरीरस्य, वैसदृश्याच्छरीरिणः । धनबन्धुसहायानां, तत्रान्यत्वं न दुर्वचम् ॥७०॥
वृत्तिः - यत्रेति प्रक्रमार्थमव्ययम् । अन्यत्वं भेदः शरीरस्य कायस्य । कस्माद् भेदः ? शरीरिण आत्मनः सकाशात् । कुतो हेतोः ? वैसदृश्यात् । प्रतीतमेव हि वैसदृश्यं शरीरशरीरिणोर्मूर्तत्वामूर्तत्वाभ्याम्, अचेतनत्वचेतनत्वाभ्याम्, अनित्यत्वनित्यत्वाभ्याम्, भवान्तरेष्वगमनगमनाभ्यां च । तत्रेति प्रक्रमोपसंहारे, शरीरिणः सकाशादन्यत्वं न दुर्वचं न दुर्भणम् । केषाम् ? धनबन्धुसहायानां धनानां धनधान्यादिभेदैर्नवविधानाम्, बन्धूनां मातृपितृपुत्रादीनाम्, सहायानां सुहृत्-सेवक - पत्त्यादीनाम् । अयमर्थः यो जीवात् शरीरस्योपपत्त्या भेदं ग्राहितः स धनादिभ्यो भेदं ग्राहयितुं सुशक एवेति ॥ ७० ॥
अथाशुचित्वभावनामाह
-