________________
६६०
द्वादश भावनाः
वृत्तिः - साम्यं यथोक्तस्वरूपं निर्ममत्वेनोपायेन स्यात् ननु साम्यनिर्ममत्वयोः को भेदः ? उच्यते साम्यं रागद्वेषयोरुभयोरपि प्रतिपक्षभूतम्, निर्ममत्वं रागस्यैकस्य प्रतिपक्षभूतम् । तद्दोषद्वयनिवारणाय साम्ये चिकिर्षिते भवति बलवत्तरस्य रागस्य प्रतिपक्षभूतं निर्ममत्वमुपायः । यथा हि बलवत्यां सेनायां बलवत्तरस्य कस्यचिद् विनाश इतरेषां विनाशाय, तथा रागनिग्रहहेतु निर्ममत्वं हीनबलानां द्वेषादीनां विनाशायेति अलं प्रसङ्गेन । निर्ममत्वस्याप्युपायं दर्शयति - तत्कृते निर्ममत्वनिमित्तं भावना अनुप्रेक्षाः श्रयेद् योगी । प्रकृता भावना नामतः कथयति-अनित्यतामित्यादि, स्पष्टं चैतत् ॥५५-५६॥
तद्यथा इत्युपस्कारपूर्वकमनित्यताख्यां प्रथमां भावनां दर्शयति
यत्प्रातस्तन्न मध्याह्ने, यन्मध्याह्ने न तन्निशि । निरीक्ष्यते भवेऽस्मिन् ही !, पदार्थानामनित्यता ॥५७॥ शरीरं देहिनां सर्व-पुरुषार्थनिबन्धनम् । प्रचण्डपवनोद्धूत-घनाघनविनश्वरम् ॥५८॥
कल्लोलचपला लक्ष्मीः, सङ्गमाः स्वप्नसन्निभाः । वात्याव्यतिकरोत्क्षिप्त-तूलतुल्यं च यौवनम् ॥५९॥
वृत्ति: - श्लोकत्रयं स्पष्टम्, नवरं शरीरमित्यादिश्लोके पूर्वार्द्ध यदिति शेषः, उत्तरार्द्धे तदिति शेषः ॥५७॥ ॥ ५८॥ ॥ ५९॥
अथाशरणभावनामुपदिशति -
इन्द्रोपेन्द्रादयोऽप्येते, यन्मृत्योर्यान्ति गोचरम् ।
अहो ! तदन्तकातङ्के कः, शरण्यः शरीरिणाम् ? ॥६९॥
वृत्तिः - इन्द्रः सुरनाथः, उपेन्द्रो वासुदेवस्तावादी येषां सुरमनुष्यादीनां चक्रवर्तिपरिहारेणोपेन्द्रग्रहणं लोके मृत्युकाले शरणत्वोपहासपरम्, तेऽपि यद् यस्माद् मृत्योर्गोचरं वशं यान्ति, अहो इति विस्मये, तत् तस्मादन्तकातङ्के मृत्युभये उपस्थिते कः शरण्यः शरणे साधुः शरीरिणां जन्तूनाम् ? - कोऽपि नास्तीत्यर्थः ॥ ६१ ॥
अथ संसारभावनां श्लोकत्रयेणाह -
श्रोत्रियः श्वपचः स्वामी, पत्तिर्ब्रह्मा कृमिश्च सः । संसारनाट्ये नटवत्, संसारी हन्त ! चेष्टते ॥ ६५ ॥