SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ६५९ द्वादश भावनाः वृत्तिः - 'एमेवे'त्यादि, 'साहे'त्यादि, एवमेव-अहोरात्रिकीवदेकरात्रिकी एकरात्रिमाना, विशेषमाह-अष्टमभक्तेन-उपवासत्रयरूपेण स्थानं-अवस्थानं तत्कर्तुः 'बाहिरउत्ति बहिस्ताद्ग्रामादेः, तथेषत्प्राग्भारगतः ईषत्कुब्जो नद्यादिदूस्तटीस्थितो वाऽसौ स्यात् तथाऽनिमिषनयनो-निर्निमेषलोचनः तथैकदृष्टिकः-एकपुद्गलगतदृष्टिः यथास्थितगात्रो गुप्तसर्वेन्द्रिय इति ॥१९॥ _ 'साहट्ट'त्ति संहृत्य द्वावपि पादौ-क्रमौ, जिनमुद्रया व्यवस्थाप्येत्यर्थः, व्याघारितपाणिवक्ष्यमाणार्थः 'ठायइत्ति तिष्ठति-करोति स्थानं-कायसंस्थानविशेष वाघारितपाणिरितिलम्बितभुजोऽवलम्बितबाहुरुच्यते, सम्यक्पालने चास्या यत्स्यात्तदाह-अन्ते च-सम्यक्पर्यन्तनयने पुनः अस्या एकरात्रिकप्रतिमायाः लब्धिः-लाभविशेषः स्यात्, आह च - "एगराइयं च णं भिक्खुपडिमं सम्म अणुपालेमाणस्स इमे तओ ठाणा हियाउ भवंति, तंजहा - ओहिनाणे वा समुप्पज्जेज्जा, मणपज्जवनाणे वा समुप्पज्जेज्जा, केवलनाणे वा असमुप्पण्णपुव्वे समुप्पज्जेज्जा ।", (छाया- एकरात्रिकी च णं भिक्षुप्रतिमां सम्यग् अनुपालयत इमानि त्रीणि स्थानानि हितानि भवन्ति, तद्यथा - अवधिज्ञानं वा समुत्पद्येत, मनःपर्यवज्ञानं वा समुत्पद्येत, केवलज्ञानं वा असमुत्पन्नपूर्वं समुत्पद्येत ।) इतिशब्दः समाप्तौ, इयं च प्रतिमा रात्रेरनन्तरमष्टमकरणाच्च चतूरात्रिन्दिवमाना स्यात्, यदाह - "एगराइया चउहि, पच्छा अट्ठमं करे ।" (छाया- एकरात्रिकी चतुर्भिः, पश्चात् अष्टमं करोति ।) इति गाथाद्वयार्थः ॥२०॥ गुरुरेतासु द्वादशसु भिक्षुप्रतिमासु नित्यमुद्यमं करोति । भाव्यते आत्माऽऽभिरिति भावनाः-अनुप्रेक्षाः । ता द्वादशविधाः । तद्यथा - १ अनित्यभावना, २ अशरणभावना, ३ संसारभावना, ४ एकत्वभावना, ५ अन्यत्वभावना, ६ अशुचिभावना, ७ आस्रवभावना, ८ संवरभावना, ९ निर्जराभावना, १० लोकस्वभावभावना, ११ बोधिदुर्लभभावना, १२ धर्मभावना च । यदाह योगशास्त्रचतुर्थप्रकाशे तद्वत्तौ च - 'साम्यं स्याद् निर्ममत्वेन, तत्कृते भावनाः श्रयेत् । अनित्यतामशरणं, भवमेकत्वमन्यताम् ॥५५॥ अशौचमाश्रवविधि, संवरं कर्मनिर्जराम् । धर्मस्वाख्याततां लोकं, द्वादशी बोधिभावनाम् ॥५६॥ तद्यथा -
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy