SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ६५८ द्वादश भिक्षुप्रतिमाः सिंहासनाधिरूढस्य सिंहासनापनयनेऽविचलितस्यावस्थानतुल्यं तदपि स्थानं तस्येति प्रकृतं अथवेति प्रकारान्तरार्थः अपिशब्दः समुच्चयार्थो योजित एव हुर्वाक्यालङ्कारे तिष्ठेद् अवतिष्ठेत्, आम्रकुब्जस्तु-सहकारफलवद्वक्राकार एवेति, एवमेतास्तिस्रोऽप्येकविंशत्या दिनानां यान्ति । इति गाथार्थः ॥१७॥ अथैकादशीमाह - एमेव अहोराई छटुंभत्तं अपाणगं णवरं। गामणगराण बाहिं वाघारियपाणिए ठाणं ॥१८॥ (छाया- एमेव अहोरात्रिकी षष्ठं भक्तं अपानकं नवरं । ग्रामनगराणां बहिः व्याघारितपाणिके स्थानम् ॥१८॥) वृत्तिः - 'एमेवे'त्यादि, एवमेव-अनन्तरोक्तनीत्या अहोरात्रिकी-अहोरात्रपरिमाणा भवति नवरं-केवलमयं विशेष इत्यर्थः षष्ठं भक्तं-भोजनं वर्ण्यतया यत्र तत् षष्ठभक्तंउपवासद्वयरूपं तपः, तत्र ह्युपवासद्वये चत्वारि भक्तानि वर्ण्यन्ते, एकाशनेन च तदारभ्यते तेनैव च निष्ठां यातीत्येवं षड्भक्तवर्जनरूपं तदिति, इह च षष्ठमित्यनुस्वारः प्राकृतत्वादागमिकः, अपानकं-पानकाहाररहितं तस्यां विधेयमिति शेषः, तथा ग्रामनगरेभ्यः प्रतीतेभ्यः बहिः बहिस्तात् व्याघारितपाणिके-प्रलम्बभुजस्येत्यर्थः स्थानं-अवस्थानं भवति तत्प्रतिपन्नस्येति, इयं चाहोरात्रिकी त्रिभिर्दिवसैर्याति प्रतिमा अहोरात्रस्यान्ते षष्ठभक्तकरणात्, यदाह - 'अहोराइया तिहि, पच्छा छटुं करेड़ ।' (छाया- अहोरात्रिकी त्रिभिः, पश्चात् षष्ठं करोति ।) इति गाथार्थः ॥१८॥ अथ द्वादशीमाह - एमेव एगराई अट्ठमभत्तेण ठाण बाहिरओ। ईसीपब्भारगओ अणिमिसणयणेगदिट्ठीए ॥१९॥ साहट्ट दोऽवि पाए वाघारियपाणि ठायइ ट्ठाणं । वाघारि लंबियभुजो अंते य इमीऍ लद्धित्ति ॥२०॥ (छाया- एमेव एकरात्रिकी अष्टमभक्तेन स्थानं बहिः । इषत्प्राग्भारगतः अनिमिषनयनैकदृष्टिकः ॥१९॥ संहृत्य द्वावपि पादौ व्याघारितपाणिः तिष्ठति स्थानम् । व्याघारितलम्बितभुजो अन्ते च अस्या लब्धिरिति ॥२०॥)
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy