________________
द्वादश भिक्षुप्रतिमाः
६५७
तथा उत्तानकः - ऊर्ध्वमुखशयितः 'पासल्ली 'ति पार्श्वशयितः 'नेसज्जी 'ति निषद्यावान् समपूततयोपविष्टः वापीति विकल्पार्थः स्थानकं - उक्तमेव कायचेष्टाविशेषरूपं स्थित्वाकृत्वा ग्रामादिभ्यो बहिरिति शेषः दशावचनप्रामाण्यात् सहते - क्षमते उपसर्गान् उपद्रवान् घोरान्-रौद्रान् दिव्यादीन् - देवकृतादीन्, आदिशब्दान्मानुषतैरश्चादिग्रहः, तत्र तस्यां प्रतिमायां अविकम्पो - मनः शरीराभ्यामचलः इति गाथाद्वयार्थः ॥ १५ ॥
नवमीमाह
—
दोच्चावि एरिसच्चिय बहिया गामाइयाण णवरं तु । उक्कडलगंडसाई दंडाययओ व्व ठाऊणं ॥१६॥
(छाया - द्वितीयाऽपि ईदृश्येव बहिः ग्रामादिकानां नवरं तु । उत्कटुकलगण्डशायी दण्डायतक इव स्थित्वा ॥१६॥
वृत्तिः - 'दोच्चे 'त्यादि, द्वितीयापि - द्वितीयसप्तरात्रिन्दिवप्रतिमापि, आस्तां प्रथमा, ईदृश्येवोक्तरूपैव प्रथमासदृश्येवेत्यर्थः तपः पारणकसाधर्म्याद्ग्रामादिबहिर्वृत्तिसाधर्म्याच्च, अत एवाह बहिस्तादेव - बहिरेव ग्रामादीनां सन्निवेशविशेषाणां, नवरं - केवलमयं विशेष: तुशब्दोऽवधारणे योजितश्च उत्कटुको- भूम्यामन्यस्तपूततयोपविष्टः तथा लगण्डं-वक्रकाष्ठं तद्वच्छेते यः एवंशीलोऽसौ लगण्डशायी - पाष्णिकाभिरेव पृष्ठदेशेनैव वा स्पृष्टभूः तथा दण्डवद्-यष्टिवदायतो-दीर्घो दण्डायतो-भून्यस्तायतशरीरः स एव दण्डायतकः वाशब्दो विकल्पार्थः स्थित्वा-अवस्थाय दिव्याद्युपसर्गान् सहते इति प्रकृतम् । इति गाथार्थः ॥१६॥ अथ दशमीमाह -
तच्चावि एरिसच्चिय णवरं ठाणं तु तस्स गोदोही । वीरासणमहवावि हु ठाएज्जा अंबखुज्जो वा ॥१७॥
(छाया - तृतीयाऽपि ईदृश्येव नवरं स्थानं तु तस्य गोदोहिका । वीरासनमथवापि खलु तिष्ठेत् आम्रकुब्जो वा ॥१७॥
वृत्तिः - 'तच्चे 'त्यादि, तृतीयापि - तृतीयसप्तरात्रिन्दिवप्रतिमापि, आस्तां द्वितीया, ईदृश्येवोक्तरूपैव प्रथमातुल्यैवेत्यर्थः तपः पारणकग्रामादिबहिर्वृत्तिसाधर्म्यात्, नवरं - केवलं स्थानं कायसंस्थानं तुशब्द एवकारार्थो भिन्नक्रमश्च तस्य प्रतिमास्थितस्य 'गोदोही 'ति गोदोहनक्रियैव गोदोहिका गोदोहनप्रवृत्तस्येवाग्रपादतलाभ्यामवस्थानक्रियेत्यर्थः अथ सैव भवति विधेयेति शेषः, तथा वीराणां - दृढसंहननानामासनं अवस्थानं वीरासनं, तद्धि