________________
६५६
द्वादश भिक्षुप्रतिमाः __ (छाया- पश्चात् गच्छमत्येति एवं द्विमासा त्रिमासा यावत् सप्त ।
नवरं दत्तिविवृद्धिः यावत् सप्त तु सप्तमास्याम् ॥१३॥) वृत्तिः - ‘पच्छे'त्यादि, पश्चात् मासपूरणानन्तरं गच्छं-साधुसमूहं अत्येति-प्रविशति विभूत्या, तथाहि-गच्छस्थानासन्नग्रामे आगच्छत्यसौ, आचार्यास्तु तत्प्रवृत्तिमन्विच्छन्ति, ततो राजादीनां निवेद्यते, यथा 'परिपालितप्रतिमारूपमहातपाः साधुरत्रागतः' ततो राजादिलोकैः श्रमणसङ्घन वाऽभिनन्द्यमानस्तत्र प्रवेश्यते तपोबहुमानार्थं तस्य तदन्येषां च श्रद्धावृद्ध्यर्थं प्रवचनप्रभावनार्थं चेति, एवमाद्योक्ता, शेषाः षडतिदिशन्नाह-एवं-अनेनैव न्यायेन 'दुम्मासी'ति द्वौ मासौ यस्यां सा द्विमासा, एवं त्रिमासा 'जा सत्त'त्ति सप्त प्रतिमाः सप्तमासिकान्ता यावदयं न्याय इति, सर्वथा साम्यं परिहरन्नाह-नवरं-केवलं दत्तिविवृद्धिः - भिक्षाविशेषवर्धनं भवति यावत् सप्त तु-सप्तैव दत्तय एकोत्तरया वृद्ध्या सप्तमासिकायां प्रतिमायां, इति गाथार्थः ॥१३॥ अथाष्टमीमाह -
तत्तो य अट्ठमी खलु हवइ इहं पढमसत्तराइंदी। तीऍ चउत्थचउत्थेणऽपाणएणं अह विसेसो ॥१४॥ उत्ताणग पासल्ली सज्जी वावि ठाणगं ठाउं।
सहउवसग्गे घोरे दिव्वाई तत्थ अविकंपो ॥१५॥ (छाया- ततश्च अष्टमी खलु भवति इह प्रथमसप्तरात्रिन्दिवा ।
तस्यां चतुर्थं चतुर्थेनाऽपानकेन अथ विशेषः ॥१४॥ उत्तानकः पार्श्वशयितः निषद्यावान् वापि स्थानकं स्थित्वा ।
सहते उपसर्गान् घोरान् दिव्यादीन् तत्र अविकम्पः ॥१५॥) वृत्तिः - 'तत्तो' इत्यादि, 'उत्ते'त्यादि, ततश्च-सप्तम्यनन्तरं अष्टमी प्रतिमा खलुरलङ्कारे भवति-स्यात् इह प्रक्रमे सप्त रात्रिन्दिवानि-अहोरात्राणि यस्यां सा तथा सा पुनस्तिसृणां मध्ये आद्येति प्रथमसप्तरात्रिन्दिवा, तस्यां प्रथमसप्तरात्रिन्दिवायां 'चउत्थचउत्थेणे'ति चतुर्थं चतुर्थेनैकान्तरोपवासेनेत्यर्थः आशितव्यमिति शेषः, अपानकेनपानकाहाररहितेन चतुर्विधाहाररहितेनेत्यर्थः, अथेत्ययमुक्तो वक्ष्यमाणश्च विशेषो-भेदः प्राक्तनप्रतिमाभ्यः तथेह पारणके आचामाम्लं दत्तिनियमस्तु नास्तीति ॥१४॥