________________
द्वादश भिक्षुप्रतिमाः
६५५ यथास्तीर्णसारः एतेषु वा त्रिषु सारेषु शयितुं स्वप्तुं कारणविशेषाच्छीलमस्येति पृथिवीकाष्ठयथास्तीर्णसारशायी, उक्तं च - 'मासियं णं भिक्खुपडिमं पडिवण्णस्स कप्पंति तओ संथारगा अहिट्ठित्तए,
तं जहा-पुढविसिलं वा कट्ठसिलं वा अहसंथडमेव त्ति ॥' (छाया-मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्य कल्पन्ति त्रयः संस्तारकाः अधिष्ठातुम्,
तद्यथा - पृथ्वीशिलां वा काष्ठशिलां वा यथासंस्तृतमेव वा इति ।) तथा न-नैव अग्ने:-वह्नः बिभेति-भयमेति, प्रदीप्तोपाश्रयान्न निर्गच्छतीत्यर्थः, अथ कश्चिद्बाह्वादौ गृहीत्वा कर्षति तदा निर्यात्यपीति, तथेति समुच्चयार्थोऽत्र दृश्यः, काष्ठदि दारुप्रभृति, आदिशब्दात् कण्टकशर्करादेहः, पादलग्नं-चरणप्रविष्टं नापनयति-न स्फेटयति. तथेति योजितमेव अक्षिकणुकं-लोचनपतितरेणुकं वाशब्दः समुच्चये । इति ॥१०॥
यत्र जलस्थलदुर्गादौ स्थितस्येति गम्यते अस्तमेति-पर्यन्तं याति सूरो-रविः न-नैव ततः-तस्मात् स्थानाज्जलादेः पदमपि-पादप्रमाणमपि क्षेत्रं, आस्तां दूरं, सञ्चरति गच्छति आदित्योदयं यावत्, तथा पादादि-चरणकरमुखादिकमङ्गं न-नैव प्रक्षालयति-शौचयति एष प्रतिमास्थितः विकृतोदकेनापि-प्रासुकजलेनापि, तदन्यसाधवो हि पुष्टालम्बने पादादि प्रक्षालयन्त्यपि अयं तु न कथञ्चिदपीति संसूचनार्थोऽपिशब्दः ॥११॥ ___ 'दुगुस्सहत्थिमाति' इति लुप्तपञ्चमीकं दुष्टाश्वहस्त्यादेः-मारकतुरगकरिवरप्रभृतेः, आदिशब्दात् सिंहव्याघ्रादिग्रहः, तकोऽसौ प्रतिमास्थः भयेन मरणभीत्या पदमपि-पादविक्षेपमात्रमपि किं पुनर्दूरं? न-नैव अपसरति - अपगच्छति, दुष्टो हि मारणार्थमागच्छन्नपसृतेऽपि साधौ हरितादि विराधयिष्यतीत्यतो नापसरति, अदुष्टस्त्वपसृते साधौ मार्गेणैव गच्छति ततो हरितादिविराधना न स्यादित्यदुष्टादपसरतीति, एवमादिनियमसेवी-एतत्प्रभृतिकाभिग्रहानुपालकः सन्, आदिशब्दाच्छायाया उष्णमुष्णाच्छायां नोपैतीत्यादिग्रहः, विहरतिग्रामानुग्रामं सञ्चरति यावदखण्डितः-परिपूर्णो मासः प्रतीतः जायत इति शेषः, इति गाथाषट्कार्थः ॥१२॥ ततः किमिति? आह -
पच्छा गच्छमईई एवं दुम्मासि तिमासि जा सत्त । णवरं दत्तिविवड्डी जा सत्त उ सत्तमासीए ॥१३॥